Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
2
सूर्यप्रज्ञ- तिवृत्तिः (मल०)
सू१००
॥२७६॥
न्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येकं मण्डलमिति, न ११९ प्राभृते चेत्थमवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथैतेषां गतिरेव न भवतीति, यत आह-तेऽविय'इत्यादि, तान्यपि-नक्ष- चन्द्रसूर्यात्राणि तारकाणि च, सूत्रे पुरत्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्त्तमेव, इदै क्रियाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच्च दिपरिमाण मेरुं लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि। 'रयणियरे'त्यादि, रजनिकरदिनकराणा- चन्द्रादित्यानामूलमधश्च सङ्कमो न भवति, तथाजगत्स्वाभाव्यात् , तिर्यक् पुनर्मण्डलेषु सङ्क्रमणं भवति, किंविशिष्टमित्याह| साभ्यन्तर बाह्य-अभ्यन्तरं च बाह्यं च अभ्यन्तरवाह्यं सहाभ्यन्तरबाह्येन वर्त्तते इति साभ्यन्तरबाह्यं, एतदुक्तं भवति| सर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्कमणं यावत् सर्वबाह्यं मण्डलं सर्वबाह्याच मण्डलादाक् तावन्मण्डलेषु सङ्क| मणं यावत् सर्वाभ्यन्तरमिति। 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणां च चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कम्माणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्रं कालो भावो भवश्च, | उक्तं च-"उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवं च खेत्तं कालं भवं च भावं च संपप्प ॥१॥" शुभकर्मणां प्रायः शुभवेद्यानां च कर्मणां शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री,
॥२७६॥ |ततो यदा येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि तां तथाविर्धा विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि च शरीररोगोत्पादनेन धनहानिकरणतो वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606