SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ 2 सूर्यप्रज्ञ- तिवृत्तिः (मल०) सू१०० ॥२७६॥ न्यवस्थितानि ज्ञातव्यानि, किमुक्तं भवति ?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येकं मण्डलमिति, न ११९ प्राभृते चेत्थमवस्थितमण्डलत्वोक्तावेवमाशङ्कनीयं यथैतेषां गतिरेव न भवतीति, यत आह-तेऽविय'इत्यादि, तान्यपि-नक्ष- चन्द्रसूर्यात्राणि तारकाणि च, सूत्रे पुरत्वनिर्देशः प्राकृतत्वात् , प्रदक्षिणावर्त्तमेव, इदै क्रियाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच्च दिपरिमाण मेरुं लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि। 'रयणियरे'त्यादि, रजनिकरदिनकराणा- चन्द्रादित्यानामूलमधश्च सङ्कमो न भवति, तथाजगत्स्वाभाव्यात् , तिर्यक् पुनर्मण्डलेषु सङ्क्रमणं भवति, किंविशिष्टमित्याह| साभ्यन्तर बाह्य-अभ्यन्तरं च बाह्यं च अभ्यन्तरवाह्यं सहाभ्यन्तरबाह्येन वर्त्तते इति साभ्यन्तरबाह्यं, एतदुक्तं भवति| सर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्कमणं यावत् सर्वबाह्यं मण्डलं सर्वबाह्याच मण्डलादाक् तावन्मण्डलेषु सङ्क| मणं यावत् सर्वाभ्यन्तरमिति। 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणां च चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणां कम्माणि, तद्यथा-शुभवेद्यानि अशुभवेद्यानि च, कर्मणां च सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्रं कालो भावो भवश्च, | उक्तं च-"उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दवं च खेत्तं कालं भवं च भावं च संपप्प ॥१॥" शुभकर्मणां प्रायः शुभवेद्यानां च कर्मणां शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री, ॥२७६॥ |ततो यदा येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषां प्रायो यान्यशुभवेद्यानि कर्माणि तानि तां तथाविर्धा विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानि च शरीररोगोत्पादनेन धनहानिकरणतो वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy