________________
-
-
ARRE5
-
-
पष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशन्नक्षत्राणां पतयः, एकैका च पङ्किः षट्पष्टि सङ्ख्येति ।। 'छावट्ठी'त्यादि, ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके षट्सप्तत्यधिक पतिशत एकैका च पर्भिवति षट्रपष्टिः-पट्पष्टिग्रहसङ्ख्या, अत्रापीयं भावना-इह जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिम्रहाः, उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवाप्टाशीतिः, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारको लवणसमुद्रे षट् धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराट्टै इति षट्पष्टिः एवं शेषा अपि सप्ताशीतिम्रहाः पङ्क्त्या व्यवस्थिताः प्रत्येक पट्पष्टिर्वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागे अङ्गारकप्रभृतीनामष्टाशीतेहाणां पतयः प्रत्येकं षट्पष्टिसङ्ख्याका भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां पट्सप्ततं पतिशतमेकैका च पतिः षट्षष्टिसङ्ख्याकेति । 'ते मेरुमणुचरंती'त्यादि, तेमनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे च ग्रहगणा अनवस्थितैः यथायोगमन्यैरन्यैनक्षत्रेण सह योगैरुपलक्षिताः पयाहिणावचमंडला' इति प्रकर्षण-सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नाव-2 |त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिण आवर्तो येषां मण्डलाना तानि तथा प्रदक्षिणावर्तानि मण्डलानि येषां| ते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ता अपि मनुष्यलोकवर्तिनः प्रदक्षिणावर्त्तमण्डलगत्या परिभ्रमन्तीति, इह चन्द्रादित्यग्रहाणां मण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले तेषां सञ्चारित्वात् , नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-नक्खत्ते'त्यादि, नक्षत्राणां तारकाणां च मण्डला
-
-
-
-
1- M
-
-
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org