Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
१९प्राभृते चन्द्रसूर्यादिपरिमाणं सू १००
सूर्यप्रज्ञ- त्यष्टौ लवणसमुद्रस्य एकतोऽपि द्वे लक्षे अपरतोऽपीति चतस्रः एका लक्षा जम्बूद्वीपस्येति सर्वसङ्ख्यया एकोनत्रिंशल्लक्षाः तिवृत्तिः
२९००००० एतेषां वर्गो विधीयते जातोऽष्टकश्चतुष्क एककः शून्यानि दश ८४१०००००००००० ततो दशभिर्गुणने (मल०) जातान्येकादश शुन्यानि ८४१००००००००००० तेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं ९१७०६०५, शेष ॥२७॥
त्रिको नवकस्त्रिकस्त्रिको नवकः सप्तकः पञ्चकः ३९३३९७५ इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्तं, 'एक्काण- उई सयराई सयसहस्साईति एकनवतिः शतसहस्राणि सप्ततानि-सप्ततिसहस्राधिकानि, नक्षत्रादिपरिमाणं च अष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वाचत्वारिंशता गुणयित्वा भावनीयं, 'ता कालोयं णं समुदं पुक्खरवरेण मित्यादि सुगम, गणितभावना त्वियं-पुष्करवरद्वीपस्य पूर्वतः षोडश लक्षा अपरतोऽपीति द्वात्रिंशत् लक्षाः कालोदधेः पूर्वतोऽष्टौ अपरतोऽप्यष्टाविति षोडश धातकीखण्डस्य एकतोऽपि चतस्रो लक्षा अपरतोऽपि चतन इत्यष्टौ लवणसमुद्रे एकतोऽपि
द्वेलक्षे अपरतोऽपि द्वे इति चतम्रो जम्बूद्वीपो लक्षमिति सर्वसङ्कलनया जाता एकषष्टिलक्षाः ६१००००० एतस्य राशेर्वर्गो प्रविधीयते जातस्विकः सप्तको द्विक एककः दश च शून्यानि ३७२१०००००००००० ता दशभिर्गुणने जातानि शून्यान्ये
कादश ३७२१००००००००००० एतेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभावनीयं । 'ता पुक्खरवरस्स 'मित्यादि, ता इति पूर्ववत्, पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः प्रज्ञप्तः, स च वृत्तो, वृत्तं च मध्यपूर्णमपि भवति यथा कौमुदीक्षणे शशांकमण्डलं ततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितो यः पुष्करवरद्वीपं द्विधा
59525A5%2525
॥२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606