Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥२६१॥
Jain Education Internationa
|चंदद्विमाणाओ' इत्यादि ता इति पूर्ववत् चन्द्रविमानादूर्ध्वं विंशतिं योजनानि उत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति 'एवमेवेत्यादि एवमेव-उक्तेनैव प्रकारेण 'सपुवावरेणं' ति सह पूर्वेण वर्त्तन्ते इति सपूर्व सपूर्व च तत् अपरं च सपूर्वापरं तेन पूर्वापरमीलनेनेत्यर्थः, दशोत्तरयोजनशतबाहल्येन, तथाहि - सर्वाधस्तनात्तारारूपात् ज्यो|तिश्चक्रादूर्ध्वं दशभियोजनैः सूर्यविमानं ततोऽप्यशीत्या योजनैश्चन्द्रविमानं ततो विंशत्या सर्वोपरितनं तारारूपं ज्योतिश्चक्रमिति भवति ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशोत्तरयोजनशतबाहल्ये, पुनः कथंभूते इत्याह- तिर्यगसङ्ख्येये-असङ्ख्येययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं चारं चरतिचारं चरत् मनुष्यक्षेत्राद्वहिः पुनरवस्थितमाख्यातं इति वदेत् ॥ 'ता अस्थि ण' मित्यादि, ता इति पूर्ववत्, अस्त्येतत् भगवन् ! यदुत चन्द्रसूर्याणां देवानां 'हिट्ठिपि त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा | द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि - लघवोऽपि भवन्ति, हीना अपि भवन्तीत्यर्थः केचित्तुल्या अपि भवन्ति, तथा सममपि - चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यापि व्यवस्थितास्तारारूपाः - ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि तथा चन्द्रविमानानां सूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपाः - तारारूपविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिवि| भवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि ?, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अस्थि'त्ति यदेतत्त्वया पृष्टं तत्सर्वं तथैवास्ति, एवमुक्ते पुनः प्रश्नयति- 'ता कहं ते' इत्यादि, सुगमं, भगवानाह - 'ता जह जहे त्यादि,
॥७॥
For Personal & Private Use Only
२८ प्राभूते चन्द्रादेरु. चत्वं तारक स्याणुतादि
परिवारः
अबाधा अ भ्यन्तरचा
राः सू ८९-९३
॥२६१॥
www.jainelibrary.org

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606