SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥२६१॥ Jain Education Internationa |चंदद्विमाणाओ' इत्यादि ता इति पूर्ववत् चन्द्रविमानादूर्ध्वं विंशतिं योजनानि उत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति 'एवमेवेत्यादि एवमेव-उक्तेनैव प्रकारेण 'सपुवावरेणं' ति सह पूर्वेण वर्त्तन्ते इति सपूर्व सपूर्व च तत् अपरं च सपूर्वापरं तेन पूर्वापरमीलनेनेत्यर्थः, दशोत्तरयोजनशतबाहल्येन, तथाहि - सर्वाधस्तनात्तारारूपात् ज्यो|तिश्चक्रादूर्ध्वं दशभियोजनैः सूर्यविमानं ततोऽप्यशीत्या योजनैश्चन्द्रविमानं ततो विंशत्या सर्वोपरितनं तारारूपं ज्योतिश्चक्रमिति भवति ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशोत्तरयोजनशतबाहल्ये, पुनः कथंभूते इत्याह- तिर्यगसङ्ख्येये-असङ्ख्येययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं चारं चरतिचारं चरत् मनुष्यक्षेत्राद्वहिः पुनरवस्थितमाख्यातं इति वदेत् ॥ 'ता अस्थि ण' मित्यादि, ता इति पूर्ववत्, अस्त्येतत् भगवन् ! यदुत चन्द्रसूर्याणां देवानां 'हिट्ठिपि त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा | द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि - लघवोऽपि भवन्ति, हीना अपि भवन्तीत्यर्थः केचित्तुल्या अपि भवन्ति, तथा सममपि - चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यापि व्यवस्थितास्तारारूपाः - ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि तथा चन्द्रविमानानां सूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपाः - तारारूपविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिवि| भवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि ?, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अस्थि'त्ति यदेतत्त्वया पृष्टं तत्सर्वं तथैवास्ति, एवमुक्ते पुनः प्रश्नयति- 'ता कहं ते' इत्यादि, सुगमं, भगवानाह - 'ता जह जहे त्यादि, ॥७॥ For Personal & Private Use Only २८ प्राभूते चन्द्रादेरु. चत्वं तारक स्याणुतादि परिवारः अबाधा अ भ्यन्तरचा राः सू ८९-९३ ॥२६१॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy