________________
Jain Education International
ता इति पूर्ववत् यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां - तारारूपविमानाधिष्ठातॄणां प्राग्भवे तपोनियमब्रह्मच|र्याणि उच्छ्रितानि उत्कटानि भवन्ति तथा तथा तेषां देवानां तस्मिन् - तारारूपविमानाधिष्ठातृभवे एवं भवति यथा । अणुत्वं वा तुल्यत्वं वा, किमुक्तं भवति ? - यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठा| तृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि | अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपदेवत्वमनुप्राप्ता द्युतिविभवादिकमपेक्ष्य चन्द्रसूर्यैर्देवैः सह समाना भवन्ति, न चैतदनुपपन्नं, दृश्यन्ते हि मनुष्यलोकेऽपि केचिज्जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यद्युतिविभवा इति, 'ता एवं खलु' इत्यादि निगमनवाक्यं सुगमं । 'ता एगमेगस्स ण'मि|त्यादि, ग्रहादिपरिवारविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, 'ता मंदरस्स ण'मित्यादि, ता इति पूर्ववत्, मन्दरस्य पर्वतस्य जम्बूद्वीपगतस्य सकलतिर्यग्लोकमध्यवर्त्तिनः कियत्क्षेत्रमवाधया सर्वतः कृत्वा चारं चरति १, भगवानाह - 'ता एक्कार से' त्यादि, ता इति पूर्ववत् एकादश योजनशतानि एकविंशानि - एकविंशत्यधिकानि अवाधया कृत्वा चारं चरति, | किमुक्तं भवति ? - मेरोः सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतया ज्योतिश्चक्रं चारं चरति, 'ता लोयंताओ ण'मित्यादि, ता इति पूर्ववत् लोकान्तादवकु णमिति वाक्यालङ्कारे कियत् क्षेत्रमबाधया कृत्वा - अपान्तरालं कृत्वा ज्योतिषं प्रज्ञप्तम् ?, भगवानाह - 'एक्कार से' त्यादि, एकादश योजनशतान्येकादशानि - एका
For Personal & Private Use Only
www.jainelibrary.org