________________
******
**04052******
रकादीन्यपि वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह-एगे एवमाहंसु',एके पुनरेवमाहुः-अनुराधादीनि सतनक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहारः-'एगे एवमाहंसु', एवं शेषाण्यप्युपसंहारवाक्यानि योजनीयानि, एके पुनरेवमाहुः-धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः-अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, एके पुनरेवमाहुर्भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, सम्प्रत्येतेषामेव पञ्चानामपि मतानां भावनिकामाह'तत्थ जे ते एवमाहंसु' इत्यादि सुगम, भगवान् स्वमतमाह-'वयं पुण'इत्यादि पाठसिद्धम् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभृतं समाप्तम् ॥
तदेवमुक्तं दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभृतं, सम्प्रति द्वाविंशतितममारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्राणां विचयो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह| "ता कहं ते णक्खत्तविजये आहित्तेति वदेजा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जंबुद्दीवेणं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तर्विसु वा तवेंति वा तविस्संति वा, छप्पण्णं णक्खत्ता जोयं जोएंसु वा ३, तंजहा-दो अभीयी दो सवणा दो धणिट्ठा दो सतभिसया दो पुवापो. ट्ठवता दो उत्तरापोट्टवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दोरोहिणी दो संठाणा दो अद्दा दो पुणवसू दो पुस्सा दो अस्सेसाओदो महा दो पुत्वाफग्गुणी दो उत्तराफग्गुणी दो हत्था दो चित्ता दो साई दो अणुराधा दो जेट्ठा दो मूला दो पुवासाढा दो उत्तरासाढा,ता एएसिणं छप्पण्णाए नक्खत्ताणं अत्थि णक्खत्ता
BREASEANm
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org