________________
नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात् , तत इत्थं गोत्रसम्भवो द्रष्टव्यः-यस्मिन्नक्षत्रे शुभैरशुभैर्वा ग्रहैः समान यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्तिः, 'ता'इति पूर्ववत्, कथं त्वया नक्षत्राणां गोत्राणि आख्यातानीति वदेत् !, भगवानाह-'ता एएसि 'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं मोद्गल्यायनसगोत्रं-मोद्गल्यायनेन सह गोत्रेण वर्त्तते यत्तत्तथा, श्रवणनक्षत्रं शाङ्खाय-| नसगोत्रं, एवं शेषाण्यपि सूत्राणि भावनीयानि, क्रमेण गोत्रसजाहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्काश्चतस्रः सङ्ग्रहणिगाथा:"मोग्गल्लायण १ संखायणे २ य तह अग्गभाष ३ कण्णल्ले ४ । तत्तो य जोउकण्णे ५ धणंजए ६ चेव बोद्धये ॥१॥ पुस्सायण ७ अस्सायण ८ भग्गवेसे ९ य अग्गिवेसे १० य । गोयम ११ भारदाए १२ लोहिच्चे १३ चेव वासिढे १४ ॥२॥ उज्जायण १५ मंडबायणे १६ य पिंगायणे १७ य गोवल्ले १८ । कासव १९ कोसिय २० दब्भिय २१ भाग (चाम) रच्छा य २२ सुंगाए २३ ॥३॥ गोलबायण २४ तिगिंछायणे य २५ कच्चायणे २६ हवइ मूले । तत्तो य वज्झिBायायण २७ वग्यावच्चे २८ य गुत्ताई ॥४॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य षोडशं8 प्राभृतप्राभृतं समाप्तम् ॥
- तदेवमुक्तं दशमस्य प्राभूतस्य षोडशं प्राभृतप्राभृतं, सम्प्रति सप्तदशमारभ्यते, तस्य चायमर्थाधिकारः-भोजनानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते भोयणा आहिताति वदेजा १, ता एएसिणं अट्ठावीसाए णं णक्खत्ताणं कत्तियाहिं |
ककर
Jain EducatioK
ronal
For Personal & Private Use Only
www.jainelibrary.org