Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
चरणविधानम्।
चतुर्विधान, तथाहि-"हास-पओस-विमंसा-पुढो-विमायाहिं देवउवसग्गा । आइतियं माणुस्सा, कुसीलपडिसेवहेऊ य॥१॥ भयरोसाहारकए, अवञ्चलयणाऽवणे य तेरिच्छा। घट्टण-पवडण-थंभण-लेसणया आयवेयणिया ॥२॥" यो भिक्षुः सहते ॥ 'विकथा-कषाय-सज्ञानां' प्रतीतानां प्रत्येकं चतुष्कमिति शेषः, "झाणाणं च"त्ति ध्यानयोश्च 'द्विकम्' आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति, चतुर्विधत्वाच ध्यानस्याऽत्र प्रस्तावेऽभिधानम् ॥ व्रतेषु इन्द्रियार्थेषु समितिषु 'क्रियासु च' कायिक्यादिषु यो भिक्षुः 'यतते' यथायोगं परिपालनवर्जनविधानेन यत्नं कुरुते ॥ लेश्यासु षट्सु कायेषु 'षट्के। षट्परिमाणे 'आहारकारणे' वेदनादौ यो भिक्षुः ‘यतते' यथायोगं निरोधरक्षादिविधानेन यत्नं कुरुते ॥ 'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाऽभिग्रहरूपासु संसृष्टादिषु सप्तस्विति योगः । तत्राऽसंसृष्टा हस्तमात्राभ्यां चिन्या-"असंसद्धे हत्थे असंसढे मत्ते अखरडिय त्ति वुत्तं भवई" एवं गृह्णतः प्रथमा भवति १ । संसृष्टा ताभ्यामेव चिन्त्या-"संसढे हत्थे | संसढे मत्ते" एवं गृहतो द्वितीया २ । उद्धृता नाम-पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनभाजने वोद्धृतं तत एव
गृहृतस्तृतीया ३ । अल्पलेपा नाम-अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृहृतश्चतुर्थी ४ । अवगृहीता नाम| भोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं भोजनजातं तत एव गृहतः पञ्चमी ५। प्रगृहीता नाम-भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत् करादिना प्रगृहीतं तद्गृहतः षष्ठी ६ । उज्झितधातु-यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव कान्ति तदर्धत्यक्तं वा गृहत इति सप्तमी ७ । तथा 'भयस्थानेषु' , "हास्यप्रद्वेषविमर्शपृथविमात्राभिर्देवोपसर्गाः। आदित्रिकं मानुषकाः कुशीलप्रतिसेवनाहेतुश्च ॥ १॥"
भयरोषाऽऽहारकृताः अपत्यलयनाऽवने च तेरशाः । घट्टनप्रपतनस्तम्भनश्लेषणकादात्मवेदनीयाः॥२॥" २ "असंसृष्टो हस्तः असंसष्टं मात्रकम् , अखरण्टिता इत्युक्तं भवति"।
XXXXOXOXOXOXOXOXOXOX

Page Navigation
1 ... 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798