Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
XXXCXCXX CXCX CXCXCXCXXa
अथ चतुस्त्रिंशं लेश्याख्यमध्ययनम् ।
अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थं चतुस्त्रिंशं लेश्याध्ययननामकमध्ययनमारभ्यते, अस्य चेदमादिसूत्रम् —
लेसज्झयणं पवक्खामि, आणुपुषिं जहकमं । छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥ १ ॥
व्याख्या— लेश्याऽभिधायकमध्ययनं लेश्याध्ययनं तत् प्रवक्ष्यामि आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र च षण्णामपि 'कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाह
नामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ॥ २ ॥ व्याख्या - नामानि तथा वर्ण-रस- गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्स्य समाहारनिर्देशः । परिणामश्चाऽत्रजघन्यादिः, लक्षणं च पश्चाश्रवासेवनादि, 'स्थानम्' उत्कर्षापकर्षरूपं, 'स्थितिम्' अवस्थानकालं, 'गर्ति' नरकाविकां यतो याऽवाप्यते, 'आयुः जीवितं यावति तत्राऽवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, 'तुः ' पूरणे, शृणुत मे इति सूत्रार्थः ॥ २ ॥ 'यथोद्देशं निर्देश:' इति न्यायतो नामान्याह -.
१ लिश्यते - लिप्यते आत्मा कर्मणा सहाऽनयेति लेश्या, कृष्णादिद्रव्यसाचिन्यादात्मनः परिणाम विशेषः, यदुक्तम् — कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥
CXCXCXCX9
लेश्यानां नामादि
द्वाराणि ।

Page Navigation
1 ... 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798