Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
OXCXCXCX
संखभागं च" त्ति सूत्रत्वात् पल्योपमासङ्ख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायाम्, उत्कृष्टा वालुकायाम् । नीलाया जघन्या वालुकायाम् ; उत्कृष्टा धूमप्रभायाम् कृष्णाया जघन्या धूमप्रभायाम्, इतरा तु महातमः प्रभायाम् ; शेषं नारकसूत्रेषु त्रिषु स्पष्टम् || "एसा " सूत्रं स्पष्टम् ॥ तिर्यङ्मनुष्यसूत्रे “अंतोमुहुत्तमर्द्ध” ति 'अन्तर्मुहूर्त्तार्द्धम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्या उत्कृष्टा चेति शेषः, कतरासाम् ? इत्याह – 'यस्मिन् यस्मिन्' इति पृथिवीकायादौ सम्मूच्छिममनुष्यादौ च ' या ' कृष्णाद्याः, 'तुः' पूरणे तिरश्चां मनुष्याणां च मध्ये सम्भवन्ति तासां वर्जयित्वा 'केवलां' शुद्धां लेश्यां शुकुलेश्या मित्यर्थः । अस्या एव स्थितिमाह – 'मुहूर्त्तमित्यादि स्पष्टम्, नवरम्-इह यद्यपि कचिद् अष्टवार्षिकोऽपि पूर्व कोट्यायुर्ब्रतपरिणाममवाप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादवकू शुकुलेश्यायाः सम्भव इति नवभिर्वर्षैरूना पूर्वकोटिरुच्यते ॥ " एसा " सूत्रं स्पष्टमेव ॥ प्रतिज्ञातमाह – 'दसे' त्यादि सूत्रत्रयं स्पष्टम् । नवरम् — “पलियमसंखेज्ज - इमो" त्ति पस्योपमासङ्ख्येयतमः प्रस्तावाद् भागः, इयं च द्विधाऽपि कृष्णायाः स्थितिरेतावदायुषामेव भवनपति - व्यन्तराणां द्रष्टव्या ॥ नीलासूत्रे "पलियमसंखं च" त्ति सूचनात् सूत्रमिति पल्योपमासङ्ख्येयभागः, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः । कापोताया अपि स्थितिर्जघन्येतरा च भवनपति - व्यन्तराणामेव ज्ञातव्या । बृहत्तमश्चाऽत्राऽसङ्ख्यातभागो गृह्यते ॥ इत्थं निकाय द्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह – “तेण” त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां 'यथे 'ति येनाऽवस्थानप्रकारेण सुरगणानां भवति, 'तथे 'त्युपस्कारः, भवनपति - व्यन्तर- ज्योति - वैमानिकानां, 'चः' पूरणे ॥ प्रतिज्ञातमाह – “पलिए" त्यादि सूत्रचतुष्टयं स्पष्टम् । नवरम् - प्रथमसूत्रे वैमानिकानेवाश्रित्य तैजस्याः स्थितिरुक्ता । तत्र च जघन्या सौधर्मे उत्कृष्टा चेशाने ॥ द्वितीयसूत्रे तु निकायभेदमाश्रित्य सैवोक्ता । इह च दशवर्षसहस्राणि जघन्या तैजस्याः स्थितिरुक्ता, प्रक्रमाऽऽनुरूप्येण तु योत्कृष्टा
लेश्यानां स्थितिद्वारम् ।

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798