Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
अथ जीवाजीवविभक्तिनामकं षटूत्रिंशमध्ययनम् ।
अनन्तराऽध्ययनेऽहिंसादयो भिक्षुगुणा उक्ताः, ते च जीवाऽजीवस्वरूपपरिज्ञानत एवाऽऽसेवितुं शक्यन्ते इति तज्ज्ञापनार्थमधुना षट्त्रिंशं जीवाऽजीवविभक्तिसंज्ञमध्ययनमारभ्यते, तस्येदमादिसूत्रम् — जीवाजीव विभत्ति, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥ १ ॥ व्याख्या - जीवाऽजीवानां विभक्तिः- तत्तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं जीवाऽजीवविभक्तिस्तां शृणुत 'मे' कथयत इति गम्यते, एकमनसः सन्तः 'इतः ' अनन्तराध्ययनादनन्तरं शेषं स्पष्टमिति सूत्रार्थः ॥ १ ॥ जीवाऽजीवविभक्तिप्रसङ्गत एव लोकालोकविभक्तिमाह —
जीवा चैव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोए से वियाहिए ॥ २ ॥
व्याख्या - स्पष्टम् ॥ २॥ इह च जीवाऽजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽह - दवओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ व्याख्या – ' द्रव्यतः ' इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्रे इति, 'कालतः ' इदमियत्स्थितिकमिति, 'भावतस्तथा' इमेऽस्य पर्याया इति प्ररूपणा 'तेषां' विभजनीयत्वेन प्रक्रान्तानां भवेद् जीवानामजीवानां चेति सूत्रार्थः ॥ ३ ॥ तत्राऽल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाह
रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो वि चउविहा ॥ ४ ॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥ ५ ॥
XXXX
***
लोकालोकविभागः, अजीवप्ररूपणायां द्रव्य
तोsरूप्य
जीव
वक्तव्यता ।

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798