SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ अथ जीवाजीवविभक्तिनामकं षटूत्रिंशमध्ययनम् । अनन्तराऽध्ययनेऽहिंसादयो भिक्षुगुणा उक्ताः, ते च जीवाऽजीवस्वरूपपरिज्ञानत एवाऽऽसेवितुं शक्यन्ते इति तज्ज्ञापनार्थमधुना षट्त्रिंशं जीवाऽजीवविभक्तिसंज्ञमध्ययनमारभ्यते, तस्येदमादिसूत्रम् — जीवाजीव विभत्ति, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥ १ ॥ व्याख्या - जीवाऽजीवानां विभक्तिः- तत्तद्भेदादिदर्शनतो विभागेनाऽवस्थापनं जीवाऽजीवविभक्तिस्तां शृणुत 'मे' कथयत इति गम्यते, एकमनसः सन्तः 'इतः ' अनन्तराध्ययनादनन्तरं शेषं स्पष्टमिति सूत्रार्थः ॥ १ ॥ जीवाऽजीवविभक्तिप्रसङ्गत एव लोकालोकविभक्तिमाह — जीवा चैव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोए से वियाहिए ॥ २ ॥ व्याख्या - स्पष्टम् ॥ २॥ इह च जीवाऽजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽह - दवओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ व्याख्या – ' द्रव्यतः ' इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्रे इति, 'कालतः ' इदमियत्स्थितिकमिति, 'भावतस्तथा' इमेऽस्य पर्याया इति प्ररूपणा 'तेषां' विभजनीयत्वेन प्रक्रान्तानां भवेद् जीवानामजीवानां चेति सूत्रार्थः ॥ ३ ॥ तत्राऽल्पवक्तव्यत्वाद् द्रव्यतोऽजीवप्ररूपणामाह रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणो वि चउविहा ॥ ४ ॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए । अधम्मे तस्स देसे य, तप्पएसे य आहिए ॥ ५ ॥ XXXX *** लोकालोकविभागः, अजीवप्ररूपणायां द्रव्य तोsरूप्य जीव वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy