________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृचिः ।
॥ ३७६ ॥
आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥ ६ ॥ व्याख्या - स्पष्टम् | नवरम् — देशः - त्रिभागादिः, प्रदेशस्तु-निरंशः ॥ ४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आहधम्माम्मे य दोsवे, लोगमित्ता वियाहिया । लोगालोगे य आगासे, समए समयखेत्तिए ॥७॥ व्याख्या – स्पष्टम् ॥ ७ ॥ एतानेव कालत आह
धम्माधम्मागासा, तिन्नि वि एए अणाइया । अपज्जवसिया चेव, सङ्घद्धं तु वियाहिया ॥ ८ ॥ समए वि संतई पप्प, एवमेव वियाहिया । आएसं पप्प साईए, सपज्जवसिए वि य ॥ ९ ॥ व्याख्या - धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु" 'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां 'प्राप्य' आश्रित्य 'एवमेव ' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेषं प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८- ९॥ सम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह
खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धव्वा, रूविणो य चउबिहा ॥ १०॥ व्याख्या – स्पष्टम् ॥ १० ॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ तयोश्च किं लक्षणम् ? इत्याह
एगत्तेण पुहुत्तेण, खंधा य परमाणुणो ।
व्याख्या- 'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः चस्य भिन्नमत्वात् परमाणषश्च । एतानेव क्षेत्रत आह
षटूत्रिंशं जीवाजीव
विभक्ति
नामकम
ध्ययनम् ।
क्षेत्रतः कालतश्चाऽ
रूप्यजीव
वक्तव्यता ।
द्रव्यतो
रूप्यजीव
वक्तव्यता ।
।। ३७६ ।। -