________________
क्षेत्रतः कालतश्च रूप्यजीववक्तव्यता।
लोएगदेसे लोए य, भइयचा ते उ खेत्तओ। व्याख्या-लोकस्यैकदेशे लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे, क्षेत्रतः । X अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेशे एवाऽवस्थानात् स्कन्धविषयैव भजना द्रष्टव्या, ते हि विचित्रत्वात् परिणते
का बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशेऽवतिष्ठन्ते, अन्ये तु सद्ध्येयेष्वसङ्ख्येयेषु च प्रदेशेषु यावत् सकललोकेऽपि K| तथाविधाऽचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते ।
एत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥११॥ व्याख्या-'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्धादीनां वक्ष्ये 'चतुर्विध साधनादिसपर्यवसिताऽपर्यवसितभेदेनेति सूत्रार्थः॥११॥ इदं च सूत्रं षट्पादम् , प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यव एव । यथाप्रतिज्ञातमाहसंतई पप्प तेऽणादी, अपजवसिया विय। ठिइं पडुच्च साईया, सप्पनबसिया वि य ॥१२॥ व्याख्या-स्पष्टम् ॥ १२ ॥ सादिसपर्यवसितत्वे च कियत्कालमेषामवस्थितिः' इत्याहअसंखकालमुकोसा, एक समयं जहनिया। अजीवाण य रूवीणं, ठिई एसा पियाहिया ॥१॥
व्याख्या-असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, यत्राऽपि 'असंखकालमुक्कोसं एक्को समओ जहन्नयं' ति पाठः, तत्रापि लिङ्गव्यत्ययायमेव संस्कारः, एवमुत्तरत्राऽपि, शेष स्पष्टम् । नवरं 'स्थितिः' प्रतिनियतक्षेत्राऽवस्थानरूपा ॥१३॥ इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता । सम्प्रत्येतदन्तर्गतमेवाऽन्तरमाहअणंतकालमुकोसं, एको समओ जहन्नयं। अजीवाण य रूवीणं, अंतरेयं वियाहियं ॥१४॥