Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 790
________________ संसारिजीववक्तव्यता। दृश्यत इत्युभयथाऽपि करणमनुमतं मन्यामहे । द्वितीये वर्षचतुष्के "विचित्तं तु" विचित्रमेव चतुर्थषष्ठाऽष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उग्गमविसुद्धं सवं कप्पणिजं पारेइ" त्ति ॥ एकेन-चतुर्थलक्षणेन तपसा अनन्तरं-व्यवधानं यस्मिन् तदेकान्तरं 'आयामम्' आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध 'तुः' पूरणे 'न' नैव | 'अतिविकृष्टम्' अष्टमादि तपश्चरेत्। ततः संवत्सरार्द्ध 'तुः पुनरर्थे "विगिटुंतु" विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह| "परिमियं चेव" ति 'च' पूरणे, 'परिमितमेव' स्वल्पमेव, द्वादशे हि वर्षे निरन्तरम् आयामम् इह तु चतुर्थादिपारणके | एव इत्येवमुक्तम् , 'तस्मिन्' द्विधा विभक्ते संवत्सरे कुर्यात् ।। कोट्यौ-अप्रे सहिते-मिलिते यस्मिन् तत्कोटीसहितम् । आयामं कृत्वा 'संवत्सरे' प्रक्रमाद् द्वादशे मुनिः "मास" त्ति सूत्रत्वान्मासं भूतो मासिकस्तेन एवमर्द्धमासिकेन "आहारेण" त्ति उपलक्षणत्वाद् आहारत्यागेन 'तपः' इति प्रस्तावाद् भक्तपरिज्ञादिकमनशनं चरेत् ॥ निशीथचूर्णिसम्प्रदायश्चाऽत्र-ऐत्थ बारसस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसं निसटुं धरेउ खेल्लमल्लए निट्ठभइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ ति, तस्स य विसंवाए नो सम्मं नमोकारमाराहेइ" इति सूत्रपञ्चकार्थः ॥ २५१-२५२-२५३-२५४-२५५ ॥ इत्थं प्रतिपन्नाऽनशनस्याऽप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां चानर्थहेतुतां तद्विपर्ययाणां चार्थहेतुतामाहकंदप्पमाभिओगं,किबिसियंमोहमासुरत्तं च। एआओदुग्गईओ,मरणम्मि विराहिया हुंति॥२५६॥ मिच्छादसणरत्ता, सणियाणा हु हिंसगा। इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥२५७।। "उद्मविशुद्धं सर्व कल्पनीयं पारयति" इति। २ "भत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्डर्ष निसृष्ट प्रत्वा श्लेष्ममल्लके निक्षिपति, माऽतिरूक्षत्वात् मुखयत्रविसंवादो भूदिति, तस्य च विसंवादेन सम्यग् नमस्कारमाराधयति"।

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798