Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra
View full book text
________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
पञ्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम्।
अनगारस्य मार्गः।
॥३७४॥
त्मकम् , उभयेनाऽपि परिग्रह उक्तः, ततः परिग्रहं च संयतः परिवर्जयेत् ॥ तथा मनोहरं चित्रप्रधानं गृहं चित्रगृह माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाऽपि आस्तां वचसा न प्रार्थयेत् किं पुनस्तत्र तिष्ठेद् इति भाषः ॥ किं पुनरेवमुपदिश्यते ? इत्याह-इन्द्रियाणि, 'तुः' इति यस्माद् भिक्षोस्तादृशे उपाश्रये 'दुःकराणि' करोतेः सर्वधात्वर्थत्वाद् दुःशक्यानि निवारयितुं 'कामरागविवर्द्धने' उपाश्रयविशेषणम् ॥ तर्हि क स्थातव्यम् ? इत्याह-स्मशाने शून्यागारे वा वृक्षमूले वा 'एककः' रागादिवियुक्तोऽसहायो वा “पइरिक्के” 'एकान्ते' रुयाद्यसङ्कले 'परकृते' परैर्निष्पादिते स्वार्थमिति गम्यते, 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' स्मशानादौ अभिरोचयेद् भिक्षुरिति योगः ॥ प्रासुके 'अनाबाधे' कस्यापि |बाधारहिते स्त्रीभिरनभिद्रुते 'तत्रेति प्रागुक्तविशेषणे स्मशानादौ 'सङ्कल्पयेत्' कुर्याद् वासं भिक्षुः परमसंयतः ॥ ननु किमिह परकृत इति विशेषणमुक्तम् ? इत्याशङ्कयाह-न स्वयं गृहाणि कुर्वीत, नैवाऽन्यैः कारयेद्, उपलक्षणत्वान्नाऽपि कुर्वन्तमनुमन्येत, किमिति ? यतो गृहकर्म-इष्टकामृदानयनादि तस्य समारम्भः-प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् भूतानां दृश्यते वधः । कतरेषाम् ? इत्याह-त्रसानां स्थावराणां च सूक्ष्माणां शरीराऽपेक्षया बादराणां च, तथैवोपसंहर्तुमाह-तस्माद् गृहसमारम्भं संयतः परिवर्जयेत् ॥ अन्यच्च–'तथैव' इति प्राग्वद् भक्तपानेषु पचने पाचनेषु च भूतवधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किम् ? इत्याह-प्राणाः-त्रसाः भूतानि-पृथिव्यादीनि तद्दयार्थं न पचेन्न पाचयेत् ॥ अमुमेवार्थ स्पष्टतरमाह-जलधान्यनिश्रिता जीवाः पृथिवीकाष्ठनिश्रिताः हन्यन्ते 'भक्तपानेषु' प्रक्रमात् पच्यमानेषु, यत एवं तस्माद्भिक्षुर्न पाचयेद् अपेर्गम्यमानत्वात् पाचयेदपि न किं पुनः स्वयं पचेत् ॥ अपरन-विसर्पतिस्वल्पमपि बहु भवतीति विसर्प, 'सर्वतोधारं' सर्वदिगवस्थितं जन्तूपघातकत्वात् , उक्तश्च-“पाईणं पडीणं वा वी"त्यादि ।
"प्राचीनं प्रतीचीनं वाऽपि" इत्यादि ।
॥३७४॥

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798