SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । पञ्चत्रिंशं अनगारमार्गगतिनामकमध्ययनम्। अनगारस्य मार्गः। ॥३७४॥ त्मकम् , उभयेनाऽपि परिग्रह उक्तः, ततः परिग्रहं च संयतः परिवर्जयेत् ॥ तथा मनोहरं चित्रप्रधानं गृहं चित्रगृह माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाऽपि आस्तां वचसा न प्रार्थयेत् किं पुनस्तत्र तिष्ठेद् इति भाषः ॥ किं पुनरेवमुपदिश्यते ? इत्याह-इन्द्रियाणि, 'तुः' इति यस्माद् भिक्षोस्तादृशे उपाश्रये 'दुःकराणि' करोतेः सर्वधात्वर्थत्वाद् दुःशक्यानि निवारयितुं 'कामरागविवर्द्धने' उपाश्रयविशेषणम् ॥ तर्हि क स्थातव्यम् ? इत्याह-स्मशाने शून्यागारे वा वृक्षमूले वा 'एककः' रागादिवियुक्तोऽसहायो वा “पइरिक्के” 'एकान्ते' रुयाद्यसङ्कले 'परकृते' परैर्निष्पादिते स्वार्थमिति गम्यते, 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' स्मशानादौ अभिरोचयेद् भिक्षुरिति योगः ॥ प्रासुके 'अनाबाधे' कस्यापि |बाधारहिते स्त्रीभिरनभिद्रुते 'तत्रेति प्रागुक्तविशेषणे स्मशानादौ 'सङ्कल्पयेत्' कुर्याद् वासं भिक्षुः परमसंयतः ॥ ननु किमिह परकृत इति विशेषणमुक्तम् ? इत्याशङ्कयाह-न स्वयं गृहाणि कुर्वीत, नैवाऽन्यैः कारयेद्, उपलक्षणत्वान्नाऽपि कुर्वन्तमनुमन्येत, किमिति ? यतो गृहकर्म-इष्टकामृदानयनादि तस्य समारम्भः-प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् भूतानां दृश्यते वधः । कतरेषाम् ? इत्याह-त्रसानां स्थावराणां च सूक्ष्माणां शरीराऽपेक्षया बादराणां च, तथैवोपसंहर्तुमाह-तस्माद् गृहसमारम्भं संयतः परिवर्जयेत् ॥ अन्यच्च–'तथैव' इति प्राग्वद् भक्तपानेषु पचने पाचनेषु च भूतवधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किम् ? इत्याह-प्राणाः-त्रसाः भूतानि-पृथिव्यादीनि तद्दयार्थं न पचेन्न पाचयेत् ॥ अमुमेवार्थ स्पष्टतरमाह-जलधान्यनिश्रिता जीवाः पृथिवीकाष्ठनिश्रिताः हन्यन्ते 'भक्तपानेषु' प्रक्रमात् पच्यमानेषु, यत एवं तस्माद्भिक्षुर्न पाचयेद् अपेर्गम्यमानत्वात् पाचयेदपि न किं पुनः स्वयं पचेत् ॥ अपरन-विसर्पतिस्वल्पमपि बहु भवतीति विसर्प, 'सर्वतोधारं' सर्वदिगवस्थितं जन्तूपघातकत्वात् , उक्तश्च-“पाईणं पडीणं वा वी"त्यादि । "प्राचीनं प्रतीचीनं वाऽपि" इत्यादि । ॥३७४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy