Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 758
________________ अप्रशस्ताप्रशस्तानां लेश्यानां वर्जनसेवनोपदेशः । व्याख्या-लेश्याभिः सर्वामिः 'प्रथमसमये' तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिरुपलक्षितस्य 'तुः' पूरणे, 'न हु' नैव कस्यापि उपपादः परे भवे भवति जीवस्य ॥ तथा लेश्याभिः सर्वामिः 'चरमे' अन्ये समये परिणताभिस्तु 'न हु' नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। कदा तर्हि ? इत्याह-अन्तर्मुहूर्ते गत एव, तथाऽन्तर्मुहूर्ते 'शेषके चैव' अवतिष्ठमान एव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् । अनेनान्तर्मुहूर्ताऽवशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः॥५८-५९-६०॥ सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुरुपदेष्टुमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया। अप्पसत्था उ वजित्ता, पसत्था उ अहिए मुणि ६१| त्ति बेमि॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानाम् 'अनुभावम्' उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् मुनिरिति शेषः, उभयत्राऽपि 'तुः' पूरणे, इति सूत्रार्थः ॥ ६१ ॥ 'इति' परिसमाप्ती, प्रवीमीति च प्राग्वत् ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख बोधायां चतत्रिंशं लेश्याख्यमध्ययनं समासम् ॥ उ०म०६३

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798