________________
अप्रशस्ताप्रशस्तानां लेश्यानां वर्जनसेवनोपदेशः ।
व्याख्या-लेश्याभिः सर्वामिः 'प्रथमसमये' तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिरुपलक्षितस्य 'तुः' पूरणे, 'न हु' नैव कस्यापि उपपादः परे भवे भवति जीवस्य ॥ तथा लेश्याभिः सर्वामिः 'चरमे' अन्ये समये परिणताभिस्तु 'न हु' नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। कदा तर्हि ? इत्याह-अन्तर्मुहूर्ते गत एव, तथाऽन्तर्मुहूर्ते 'शेषके चैव' अवतिष्ठमान एव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् । अनेनान्तर्मुहूर्ताऽवशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः॥५८-५९-६०॥ सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुरुपदेष्टुमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया। अप्पसत्था उ वजित्ता, पसत्था उ अहिए मुणि ६१|
त्ति बेमि॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानाम् 'अनुभावम्' उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् मुनिरिति शेषः, उभयत्राऽपि 'तुः' पूरणे, इति सूत्रार्थः ॥ ६१ ॥ 'इति' परिसमाप्ती, प्रवीमीति च प्राग्वत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां चतत्रिंशं लेश्याख्यमध्ययनं समासम् ॥
उ०म०६३