________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३७२ ॥
5000X
कापोतायाः स्थितिः असौ एवास्याः समयाधिका प्राप्नोति, तदत्र तत्त्वं न विद्मः ॥ तृतीयसूत्रे पद्मास्थितिरुक्ता, तत्र च “दसमुहुत्तहियाई” ति दशैव प्रस्तावात् सागरोपमाणि पूर्वभवसत्कान्तर्मुहूर्त्ताधिकानि । इयं च जघन्या सनत्कुमारे, उत्कृष्टा च ब्रह्मलोके । आह— यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्राऽपि किं न तदधिकमुक्तम् ? उच्यते — देवभव| लेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि लेसाण ठिरं तु देवाणं' ति; एवं सति इहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवम्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतो मुहुत्तम्मि गए" इति वचनाद् देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ॥ चतुर्थसूत्रे शुक्लायाः स्थितिरुक्ता । तत्र च जघन्या लान्तके, अपरा तु अनुत्तरेष्विति पञ्चदशसूत्रार्थः ॥ ४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५ ।। उक्तं स्थितिद्वारम् । गतिद्वारमाह
किण्हा नीला काऊ, तिन्नि वि एयाउ अहम्मलेसाउ । एयाहि तिहि वि जीवो, दुग्गई उववज्जई ५६ | तेऊ पम्हा सुक्का, तिन्नि वि एयाउ धम्मलेसाउ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई ॥५७॥
व्याख्या — स्पष्टम् । नवरम् — 'दुर्गतिं ' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति || ' सुगतिं ' मनुजगत्यादिकामित्यर्थः | ।। ५६-५७ || सम्प्रत्यायुर्द्वारावसरः, तत्र चावश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभावि| लेश्यायाः किं प्रथमसमये परभवायुष उदयः ? आहोश्वित् चरमसमये ? अन्यथा वा ? इति संशयापनोदायाह— लेसाहिं सङ्घाहिं, पढमे समयम्मि परिणयाहिं तु । न हु कस्सइ उववाओ, परे भवे अस्थि जीवस्स ५८ | लेसाहिं सबाहिं, चरमे समयम्मि परिणयाहिं तु । न हु कस्स वि उववाओ, परे भवे अस्थि जीवस्स५९ अंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ६०
XXXC
चतुख्रिशं लेश्याख्य
मध्ययनम् ।
लेश्यानां
गति
आयुर्द्वारे ।
॥ ३७२ ॥