SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ XXXCXCXX CXCX CXCXCXCXXa अथ चतुस्त्रिंशं लेश्याख्यमध्ययनम् । अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थं चतुस्त्रिंशं लेश्याध्ययननामकमध्ययनमारभ्यते, अस्य चेदमादिसूत्रम् — लेसज्झयणं पवक्खामि, आणुपुषिं जहकमं । छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥ १ ॥ व्याख्या— लेश्याऽभिधायकमध्ययनं लेश्याध्ययनं तत् प्रवक्ष्यामि आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र च षण्णामपि 'कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाह नामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ॥ २ ॥ व्याख्या - नामानि तथा वर्ण-रस- गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्स्य समाहारनिर्देशः । परिणामश्चाऽत्रजघन्यादिः, लक्षणं च पश्चाश्रवासेवनादि, 'स्थानम्' उत्कर्षापकर्षरूपं, 'स्थितिम्' अवस्थानकालं, 'गर्ति' नरकाविकां यतो याऽवाप्यते, 'आयुः जीवितं यावति तत्राऽवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, 'तुः ' पूरणे, शृणुत मे इति सूत्रार्थः ॥ २ ॥ 'यथोद्देशं निर्देश:' इति न्यायतो नामान्याह -. १ लिश्यते - लिप्यते आत्मा कर्मणा सहाऽनयेति लेश्या, कृष्णादिद्रव्यसाचिन्यादात्मनः परिणाम विशेषः, यदुक्तम् — कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥ CXCXCXCX9 लेश्यानां नामादि द्वाराणि ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy