________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघु
वृतिः ।
॥ ३६७॥
तम्हा एएसि कम्माणं, अणुभागे वियाणिया । एएसिं संवरे चैव, खवणे य जए बुहे ॥ २५ ॥ त्ति बेमि ॥
व्याख्या - " तम्ह" त्ति यस्मादेवंविधाः प्रकृतिबन्धादयः तस्मादेतेषां कर्मणामनुभागान् उपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय 'एतेषामि'ति कर्मणां 'संवरे' निरोधे 'चः' समुच्चये 'एवः' अवधारणे भिन्नक्रमः, ततः 'क्षपणे च' निर्जरणे "जए" त्ति 'यतेतैव' यत्नं कुर्यादेव 'बुधः' विद्वानिति सूत्रार्थः ॥ २५ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां कर्मप्रकृतिनामकं त्रयस्त्रिंशमध्ययनं समाप्तम् ॥
त्रयस्त्रिंशं कर्मप्रकृति
नामकम
ध्ययनम् ।
कर्मक्षपणे उपदेशः ।
॥ ३६७॥