________________
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः ।
४४१ जानाति स हेतुरेवोच्यते १, एवं य: पश्यति २ श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेवं हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह– हेतुं न जानाति न सम्यग् विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यत:, न बुध्यते न श्रद्धत्ते, बोधे: श्रद्धानपर्यायत्वात्, तथा न समभिगच्छति भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम् अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाऽज्ञातहेतुतद्गम्यभावस्य मरणं तम्रियते करोति, यश्चैवंविध: सोऽपि हेतुरेवेति पञ्चमो हेतुरिति १। __तथा पंच हेतवः, तत्र यो हेतुना धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेवं कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह- हेतुना न जानात्यनुमेयम्, नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः, एवं न पश्यतीत्यादि, तथा हेतुना मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति २।
तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग् जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेतुं हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि । इह सूत्रद्वयेऽपि हेतव: स्वरूपत उक्ता: ३-४ । __तथा पञ्चाहेतवः, य: प्रत्यक्षज्ञानादितया अनुमानानपेक्ष: स धूमादिकं हेतुं नायं हेतुर्ममानुमानोत्थापक इत्येवं जानातीत्यतोऽहेतुभूतं तं जाननहेतुरेवासावुच्यते, एवं दर्शनबोधा-ऽभिसमागमापेक्षयाऽपि । तदेवमहेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आहअहेतुमिति, धूमादिकं हेतुमहेतुभावेन न जानाति न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नबो देशनिषेधार्थत्वात्, ज्ञातुश्चावध्यादिकेवलित्वेनानु-मानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देशप्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयः, न बुध्यते न श्रद्धत्ते इति तृतीयः, नाभिसमागच्छतीति चतुर्थः, तथा अहेतुम् अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम् अननुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयं च स्वरूपत एव पञ्चमोऽहेतुरुक्त: ५ ।। ___ तथा पञ्च अहेतवः, योऽहेतुना हेत्वभावेन अवध्यादिकेवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं