________________
४६८
शब्दादयस्तु तत्कारणत्वेन कारणतयोक्ता:, भोजनपरिणामो बुभुक्षा ।
[सू० ४३७] पंचहिं ठाणेहिं समणे णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा णातिक्कमति, तंजहा- निग्गंथिं च णं अन्नयरे पसुजातिए वा पक्खिजातिए वा ओहातेज्जा, तत्थ णिग्गंथे णिग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति १, णिग्गंथे णिग्गंथिं दुगंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा णातिक्कमति २, णिग्गंथे णिग्गंथिं सेतंसि वा पणगंसि वा पंकसि वा उदगंसि वा उक्कसमाणिं वा उवुज्झमाणिं वा गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ३, निग्गंथे निग्गंथिं नावं आरुहमाणे वा ओरुहमाणे वा णातिक्कमति ४, खेत्तइत्तं दित्तइत्तं जक्खाइट्ठ उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिक्कमति ५ ।
[टी०] अनन्तरं द्रव्यप्रबुद्ध: कारणत उक्तः, अथ भावप्रबुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह- पंचहीत्यादि सुगमम्, नवरं गिण्हमाणे त्ति बाह्वादावङ्गे गृह्णन्, अवलम्बमानः पतन्तीं बाह्वादौ गृहीत्वा धारयन्, अथवा सव्वंगियं तु गहणं करेण अवलंबणं तु देसम्मि [बृहत्कल्प० ६१९२] त्ति नातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित्, पशुजातीयो दृप्तगवादिः, पक्षिजातीयो गृध्रादिः,
ओहाएज त्ति उपहन्यात्, तत्रेति उपहनने गृह्णन्नातिक्रामति कारणिकत्वात्, निष्कारणत्वे तु दोषा:, यदाह
मिच्छत्तं उड्डाहो विराहणा फासभावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥ [बृहत्कल्प० ६१७०] इत्येकम् । तथा दुःखेन गम्यत इति दुर्ग:, स च त्रिधा– वृक्षदुर्ग: श्वापददुग्र्गो म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे । तथा विषमे वा गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलन्ती वा गत्या प्रपतन्ती वा भुवि, गृह्णन्नातिक्रामतीति द्वितीयम् । तथा पङ्क: पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः कर्दमस्तत्र वा, पनके वा