Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 357
________________ ७५८ तथा असंयता: असंयमवन्त आरम्भ-परिग्रहप्रसक्ता अब्रह्मचारिणः, तेषु पूजा सत्कारः असंयतपूजा, सर्वदा हि किल संयता एव पूजार्हाः , अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्यम्, अत एवाह- दशाप्येतानि अनन्तेन कालेन अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । __[सू० ७७८] इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताई बाहल्लेणं पन्नत्ते । इमीसे णं रयणप्पभाते पुढवीते वतिरे कंडे दस जोयणसताई बाहल्लेणं पण्णत्ते । ___ एवं वेरुलिते १, लोहितक्खे २, मसारगल्ले ३, हंसगब्भे ४, पुलते ५, सोगंधिते ६, जोतिरसे ७, अंजणे ८, अंजणपुलते ९, रतते १०, जातरूवे ११, अंके १२, फलिहे १३, रिढे १४ । जहा रयणे तहा सोलसविधा वि भाणितव्वा । [टी०] अनन्तरसूत्रे चमरोत्पात उक्तः, स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्तव्यतामाह- इमीसे णमित्यादि, येयं रज्जुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यत: उपरि मध्येऽधस्ताच्च यस्याः खरकाण्ड-पङ्कबहुलकाण्डजलबहुलकाण्डाभिधाना: क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागा: सन्ति इमीसे त्ति एतस्याः प्रत्यक्षासन्नाया: रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति शोभते या सा रत्नप्रभा तस्या: पृथिव्या भूमेर्यत्तत् खरकाण्डं तत् षोडशविधरत्नात्मकत्वात् षोडशविधम्, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद् दश योजनशतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकं शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह-एवमित्यादि, एवमिति पूर्वाभिलापेन सर्वाणि वाच्यानि, वेरुलिय त्ति वैडूर्यकाण्डम्, एवं लोहिताक्षकाण्ड मसारगल्लकाण्डं हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं रूप्यं जातरूपं सुवर्णमेते अपि रत्ने एवेति । [सू० ७७९] सव्वे वि णं दीव-समुद्दा दस जोयणसताइं उव्वेहेणं पण्णत्ता।

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372