Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७५६
पुला: पुलाकिका लघुतरस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयम्, तत्र अच्चासाएमाणे त्ति उपसर्गं कुर्वन् गोशालकवत् तेजो निसृजेत्, से य तत्थ त्ति तच्च तेजस्तत्र श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत्, नो प्रक्रमते प्रकर्षेण न प्रभवतीत्यर्थः, केवलम् अंचिंअंचिं इति उत्पतनिपतां पार्श्वतः करोति, ततश्चा दक्षिणतः पार्थात् प्रदक्षिणा पार्श्वभ्रमणमादक्षिणप्रदक्षिणा, तां करोति, ततश्चोर्ध्वम् उपरि दिशि वेहासं ति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च से त्ति तत्तेजः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते, प्रतिनिवृत्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि यतस्तन्निर्गतमनुदहत् निसर्गानन्तरमुपतापयत्, किंभूतं शरीरकम् ? सह तेजसा वर्तमानं तेजोलब्धिमत्, भस्म कुर्यादिति, अयमकोपस्यापि वीतरागस्य प्रभावो यत् परतेजो न प्रभवति, अत्रार्थे दृष्टान्तमाह- जहा वा यथैव गोशालकस्य भगवच्छिष्याभासस्य मङ्खल्यभिधानमङ्खपुत्रस्य, इत्यादि विस्तरो वृत्तौ[तेः] भगवत्यां[त्याः] च ज्ञेय इति।
[सू० ७७७] दस अच्छेरगा पन्नत्ता, तंजहाउवसग्ग गन्भहरणं, इत्थीतित्थं अभव्विया परिसा । कण्हस्स अवरकंका, ओतरणं चंदसूराणं ॥१७५॥ हरिवंसकुलुप्पत्ती, चमरुप्पातो व अट्ठसतसिद्धा । अस्संजतेसु पूआ, दस वि अणंतेण कालेणं ॥१७६॥ [टी०] महावीरस्य भगवतो नमन्निखिलनर-नाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसङ्ख्यभक्तिभरनिर्भरामरषट्पदपटलजुष्टपदपद्मस्याप्यनुत्तरपुण्यसम्भारस्यापि यद् गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेनाप्युपसर्गः क्रियते तदाश्चर्यमिति ।
आश्चर्याधिकारादिदमाह-दसेत्यादि, आ विस्मयतश्चर्यन्ते अवगम्यन्त इत्याश्चर्याणि अद्भुतानि, इह च सकारः कारस्करादित्वादिति । उवसग्गेत्यादि गाथाद्वयम्, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा देवादिकृतोपद्रवाः, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरा-ऽमर-तिर्यक्कृता अभूवन्, इदं च किल न कदाचिद्

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372