Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अथ प्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाड्नष्टहालाहलः । सर्वागीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः ।।१।।
(उपजातिः) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः । सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् । संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरून् स्तविष्ये ।।३।। श्रीदानसूरिवरशिष्यमतल्लिका स, श्री प्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बवंशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे ।।६।।
(वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-र्मतिमच्छरण्यः ।।७।। तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपाश्रुतसमर्पणतेजसा सः । पन्न्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ।।८।। सर्वाधिकश्रमणसार्थपतिर्मतीशः पाता चतुःशतमितर्षिगणस्य शस्याः । गच्छाधिनाथपदभृज्जयघोषसूरिः 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ।।९।। सदबुद्धिनीरधिविबोधनबद्धकक्षो, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रभगवान् सततं प्रसन्नः ।।१०।। कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिना लोकोपकारचतुराणां
वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधनाट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः ।।
समतासागरपंन्यासश्रीपद्मविजयपुण्यस्मृती
पाचीनतर
NYYYI
मएसप्ततितम
प्रतितमं पद्याम

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372