Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 362
________________ ७६३ प्रशस्ती सौधर्मादिगणाधिपट्टालङ्कारधारिणोऽभूवन् । लब्धतपाख्याः क्रमशो लसज्जगच्चन्द्रसूरीशाः॥१।। तत्पट्टपरम्परया सकलजनानन्दकारिणोऽभूवन्। श्रीआनन्दविमलगुरुसूरीशा जगति विख्याताः॥२॥ श्रीविजयदानसूरीश्वरा अभूवन् महाप्रतापधराः। तत्पट्टविमलजलनिधिवृद्धौ सम्पूर्णचन्द्राभाः॥३॥ श्रीहीरविजयसूरीश्वरा मनोहारिशान्तिमूर्तिधराः। तेषां निर्मलपट्टोदयाचले नूतनार्कनिभाः॥४॥ कुमतिमतङ्गजसिंहा साहिसभालब्धसाधुवादभराः। श्रीविजयसेनसूरिश्वरा जयन्तीह जगतितले॥५॥ तेषां विराजमाने राज्ये श्रीविजयदेवसूरिवरे । तेषां गच्छे विबुधोदयवर्धनगणिप्रधानानाम्॥६॥ तच्छिष्यपण्डितोत्तमकुशलवर्धनगणिप्रसादेन । शिशुना नगर्षिणेयं समुद्धता दीपिका रम्या।।७।। श्रीस्थानाङ्गसुवृत्तेः सूत्रार्थतदुभयं यदिहाशुद्धम्। लिखितं मया तदखिलं शोध्यं विज्ञैः प्रसादपरैः ।।८।। श्रीमत्पत्तननगरे शशधररसबाणमुनिप्रमितवर्षे । वैशाखसितदशम्यां शुक्रे हर्षर्णविमलयोगे॥९॥ श्रीमत्तपगणगगनाङ्गणतरणिनिभैरनेकगुणसदनैः। श्रीविजयसेनसूरीश्वरैः प्रसादीकृताद्वाक्यात्॥१०॥ वाचकशिरोऽवतंसैः श्रीमद्भिर्विमलहर्षगणिवृषभैः। संशोधितेयमर्थप्रदीपिका दीपिका रम्या॥११॥ सहस्राणि चतुर्दश शताधिकानीत्यनुष्टुपां सङ्ख्या। ज्ञेयात्र वाच्यमाना हसविधुं नन्दतु चिरं सा॥१२॥ ॥ इति श्रीस्थानाङ्गदीपिका समाप्ता ।। १. विजयति सतीति शेषः। २. १६५७ वर्षे । ३. ज्योतिर्ग्रन्थप्रसिद्धयोगविशेषः। ४. यावद् सूर्याचन्द्रमसावित्यर्थः। ५. पं.श्रीकमलवर्धनगणिना मुक्ता चित्कोशे इति हस्तादर्श पुष्पिका।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372