Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 361
________________ ७६२ तथा, त एव दशप्रदेशिका दशाणुका: स्कन्धा: समुच्चया इति द्रव्यत: पुद्गलचिन्ता, तथा दशसु प्रदेशेष्वाकाशस्यावगाढा आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः, तथा दश समयान स्थितिर्येषां ते तथेति कालतः, तथा दशगुण: एकगुणकालापेक्षया दशाभ्यस्तः कालो वर्णविशेषो येषां ते दशगुणकालकाः, एवमन्यैश्चतुर्भिर्वीभ्यां गन्धाभ्यां पञ्चभी रसैरष्टाभि: स्पर्शः विशेषिता: पुद्गला: अनन्ता वाच्या:, अत एवाहएवमित्यादि, जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्तेत्यनेन भावत: पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चाऽनन्तशब्दोपादानेन वृद्ध्यादिशब्देनेवान्तमङ्गलमभिहितम्, अयं चाऽनन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य इति । तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारम्, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीयानीति ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां दशस्थानकाख्यं दशमममध्ययनं समाप्तम्।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372