Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 358
________________ दशममध्ययनं दशस्थानकम् । सव्वे वि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता २। सव्वे वि णं सलिलकुंडा दस जोयणाई उव्वेहेणं पण्णत्ता ३॥ सीतासीतोतातो णं महाणतीतो मुहमूले दस दस जोयणाई उव्वेहेणं पण्णत्ताओ ४। ___ [टी०] रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह- सव्वेत्यादि सुगमम्, नवरमुद्वेध: उंडत्तं ति भणियं होइ, द्वीपानाम् उंडत्तणाभावे वि अधोदिशि सहस्रं यावद् द्वीपव्यपदेशः, जम्बूद्वीपे तु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अत्थि त्ति। महाहदा: हिमवदादिषु पद्मादय: । सलिलकुंड त्ति सलिलानां गङ्गादिनदीनां कुण्डानि प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, मुहमूले त्ति समुद्रप्रवेशे। [सू० ७८०] कत्तियाणक्खत्ते सव्वबहिरातो मंडलातो दसमे मंडले चार चरति १॥ अणुराधानक्खत्ते सव्वन्भंतरातो मंडलातो दसमे मंडले चारं चरति २। [सू० ७८१] दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तंजहामगसिरमद्दा पुस्सो, तिनि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तधा, दस विढिकराइं णाणस्स ॥१७७॥ ३॥ [टी०] द्वीप-समुद्राधिकारात् तद्वर्तिनक्षत्रसूत्रत्रयमाह- कित्तियेत्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, चन्द्रस्य पञ्चदश, नक्षत्राणां त्वष्टौ, मण्डलं च मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भम्, तत्र जम्बूद्वीपस्याशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणां [द्वे, तथा लवणसमुद्रं त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्य एकोनविंशत्यधिकं सूर्यस्य मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च] षट्, एतेषां च सर्वबाह्यं सुमेरो: पञ्चचत्वारिंशति योजनानां सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं च चतुश्चत्वारिंशति सहस्रेषु अष्टासु च विंशत्यधिकेषु शतेषु भवतीति, एवं च कृत्तिकानक्षत्रं सर्वबाह्यात् मण्डलाउ त्ति चन्द्रमण्डलाद्दशमे चन्द्रमण्डले सर्वाभ्यन्तरात्

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372