________________
षष्ठमध्ययनं षट्स्थानकम् ।
saस्थानादि न कार्यमित्यादिरूपाम्, पुष्टालम्बनत्वादिति । अंतोहिंतो व त्ति गृहादेर्मध्याद् बहिर्नयन्तो वाशब्दा विकल्पार्थाः १, बाहिंहिंतो व त्ति गृहादेर्बहिस्तात् निर्बहिः अत्यन्तबहिर्बहिस्तात्तरां नयन्तः २, उपेक्षमाणा इति, उपेक्षा द्विविधा - व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदन - बन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सत्क्रियमाणमुपेक्षमाणाः तत्रोदासीना इत्यर्थः ३, तथा उवासमाण त्ति पाठान्तरेण भयमाण त्ति वा रात्रिजागरणे तदुपासनां विदधानाः, उवसामेमाण त्ति पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति ४, तथा अणुन्नवेमा ि तत्स्वजनादींस्तत्परिष्ठापनायानुज्ञापयन्तः ५, तुसिणीए त्ति तूष्णींभावेन संप्रव्रजन्तस्तत्परिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति ६।
[सू० ४७८ ] छट्ठाणाइं छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा-धम्मत्थिकायमधम्मत्थिकायं, आयासं, जीवमसरीरपडिबद्धं, परमाणुपोग्गलं, सदं ।
ताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति धम्मत्थिकायं जाव सद्दं ।
[टी०] छाद्मस्थिकश्चायं व्यवहारः प्राय उक्त इति छद्मस्थप्रस्तावादिदमाह - छहीत्यादि । इह छद्मस्थो विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च परमावधिर्न जानाति तथापि परमाणु - शब्दौ जानात्येव, रूपित्वात् तयो:, रूपिविषयत्वाच्चावधेरिति एतच्च सूत्रं सविपर्ययं प्राग्व्याख्यातप्रायमेवेति ।
[सू० ४७९] छहिं ठाणेहिं सव्वजीवाणं णत्थि इड्डी ति वा जुती ति वा जाव परक्कमे ति वा, तंजहा- जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं वा दो भासातो भासित्तए ३, सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४, परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकाएण वा समोदहित्तए ५, बहिता वा लोगंता गमणताए ६ ।
५०५