Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 343
________________ ७४४ [टी०] यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याहदसविहेत्यादिसूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं व्यवधानमस्येत्यनन्तरो वर्तमान: समय: तत्रोपपन्नका अनन्तरोपपन्नका: येषामुत्पन्नानामेकोऽपि समयो नातिक्रान्तस्त एत इति, येषां तूत्पन्नानां व्यादय: समया जातास्ते परम्परोपपन्नका: परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा: अवस्थिता अनन्तरावगाढाः, अथवा प्रथमसमयावगाढा अनन्तरावगाढाः, एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान् अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्वं व्यवहितान् सत: पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारका: इतरे त्वितरे, अयं तु द्रव्यकृतो भेद इति । न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तराः, ते च ते पर्याप्तकाश्चेति अनन्तरपर्याप्तकाः प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारक-भवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावः, तद्विपरीता अचरमा:, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । एवमित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः, अथ तदाधारान् नारकादिस्थितिं च दशस्थानानुपाततो निरूपयन् चउत्थीयेत्यादिसूत्राष्टादशकमाह, सुगमम् ।। [सू० ७५८] दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नताते, जोगवाहियताते, खंतिखमणताते, जितिंदियताते, अमाइल्लताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छल्लयाते, पवयणउब्भावणताए । [टी०] अनन्तरं लान्तकदेवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याहदसहीत्यादि, आगमिष्यद् आगामिभवान्तरभावि भद्रं कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भाव आगमिष्य

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372