Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 347
________________ ७४८ कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, संवुड्ढे त्ति संवर्द्धितो भोजनदानादिना अनाथपुत्रक: ८, ओववाइय त्ति उपयाचिते देवताराधने भव: औपयाचितकः, अथवा अवपात: सेवा सा प्रयोजनमस्येत्यावपातिक: सेवक इति ९, तथा अन्ते समीपे वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १०। [सू० ७६३] केवलिस्स णं दस अणुत्तरा पन्नत्ता, तंजहा-अणुत्तरे णाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते, अणुत्तरा खंती, अणुत्तरा मुत्ती, अणुत्तरे अजवे, अणुत्तरे मद्दवे, अणुत्तरे लाघवे । धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनोऽनुत्तरज्ञानादित्वात्, कानि कियन्ति च तस्यानुत्तराणीत्याह- दसेत्यादि, नास्त्युत्तरं प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरम्, एवं दर्शनावरणक्षयाद्दर्शनमोहनीयक्षयाद्वा दर्शनम्, चारित्रमोहनीयक्षयाच्चारित्रम्, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः शुक्लध्यानादिरूपम्, वीर्यान्तरायक्षयाद् वीर्यम्, इह च तप:-क्षान्ति-मुक्त्यार्जव-मार्दव-लाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति, सामान्य-विशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति। [सू० ७६४] समतखेत्ते णं दस कुरातो पत्नत्ताओ, तंजहा-पंच देवकुरातो पंच उत्तरकुरातो १०। तत्थ णं दस महतिमहालया महादुमा पन्नत्ता, तंजहा-जंबू सुंदसणा, धाततिरुक्खे, महाधाततिरुक्खे, पउमरुक्खे, महापउमरुक्खे, पंच कूडसामलीओ १०॥ तत्थ णं दस देवा महिड्डिता जाव परिवसंति, तंजहा-अणाढिते जंबुद्दीवाधिपती, सुदंसणे, पियदंसणे, पोंडरीते, महापोंडरीते, पंच गरुला वेणुदेवा १०। [सू० ७६५] दसहिं ठाणेहिं ओगाढं दुस्समं जाणेजा, तंजहा-अकाले वरिसति, काले ण वरिसति, असाधू पुजंति, साधू ण पुजंति, गुरुसु जणो मिच्छं पडिवन्नो, अमणुण्णा सद्दा जाव फासा १०।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372