Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७५२
[सू० ७७२] वाससताउयस्स णं पुरिसस्स दस दसाओ पन्नत्ताओ, तंजहाबाला किड्डा मंदा, बला पन्ना य हायणी । पवंचा पब्भारा, मुंमुही सातणी तधा ॥१७४॥
संसारिपर्यायविशेषप्रतिपादनायैवाह-वासेत्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालः, तत्र य: पुरुष: सोऽप्युपचाराद् वर्षशतायुष्कः, मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोट्यायुष्कपुरुषकाले वर्षशतायुष: पुरुषस्य कस्यचित् कुमारत्वेऽपि बालादिदशादशकसमाप्ति: स्यात्, न चैवम्, तत उपचार एव युक्त इति। दशेति संख्या, दसाउ त्ति वर्षदशकप्रमाणा: कालकृता अवस्था:, इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात्, विशिष्टतरत्वं च दशस्थानकस्यैवम्, वर्षशतप्रमाणा दशा दशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्म-धर्मिणोरभेदाद् बाला, स्वरूपं चास्या:
जायमेत्तस्स जंतुस्स जा सा पढमिया दसा । न तत्थ सुहदुक्खाइं बहुं जाणंति बालया ॥ [तन्दुल० प्रकी० ३२] इति १।
तथा क्रीडाप्रधाना दशा क्रीडा २ । तथा मन्दो विशिष्टबल-बुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च समर्थो यस्यामवस्थायां सा मन्दा ३। तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा बलयोगाद् बला ४। तथा प्रज्ञा बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया च, तद्योगाद्दशापि प्रज्ञा, प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति ५ । तथा हापयति पुरुषमिन्द्रियेष्विति इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापनी प्राकृतत्वेन च हायणि त्ति ६ । तथा प्रपञ्चते व्यक्तीकरोति प्रपञ्चयति वा विस्तारयति खेलकासादि या सा प्रपञ्चा, प्रपञ्चयति वा संसयति आरोग्यादिति प्रपञ्चा ७ । तथा प्राग्भारमीषदवनतमुच्यते, तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा ८ । तथा मोचनं मुक्, जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुखम् आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्
नवमी मुंमुही नाम जं नरो दसमस्सिओ । जराघरे विणस्संते जीवो वसइ अकामओ ॥ [तन्दुल० प्रकी० ४०] त्ति ।

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372