Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 349
________________ ७५० भृताङ्गाः, प्राकृतत्वाच्च भिंगा उच्यन्ते, त्रुटितानि तूर्याणि, [तत्कारणत्वात त्रुटिताङ्गाः तूर्यदायिन:, दीव-जोइ-चित्तंगा इति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप: प्रकाशकं वस्तु, तत्कारणत्वाद्दीपाङ्गाः, ज्योति: अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्ज्योतिरिव यद्वस्तु सोष्मप्रकाशमिति भावः, तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा विविधा मनोज्ञा रसा मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, मणीनां मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं गृहम्, तद्वदाकारो येषां ते गेहाकाराः, अणियय त्ति वस्त्रदायिनः ।। __कालाधिकारादेव कालविशेषभाविकुलकरवक्तव्यतामाह- जंबूदीवेत्यादि सूत्रद्वयं कण्ठ्यम्, नवरं तीयाए त्ति अतीतायाम् उस्सप्पिणीए त्ति उत्सर्पिण्याम्, कुलकरणशीला: कुलकरा विशिष्टबुद्धयो लोकव्यवस्थाकारिण: पुरुषविशेषाः, आगमिस्साए त्ति आगमिष्यन्त्याम्, वर्तमाना तु अवसर्पिणी, सा च नोक्ता, तत्र हि सप्तैव कुलकरा: क्वचित् पञ्चदशापि दृश्यन्त इति । [सू० ७६९] दस कप्पा इंदाहिट्ठिया पन्नत्ता, तंजहा-सोहम्मे जाव सहस्सारे, पाणते, अच्चुए । एतेसु णं दससु कप्पेसु दस इंदा पन्नत्ता, तंजहा-सक्के, ईसाणे जाव अच्चुते। एतेसि णं दसण्हं इंदाणं दस परिजाणिता विमाणा पन्नत्ता, तंजहा-पालते, पुप्फते जाव विमले, वरे, सव्वतोभद्दे । [टी०] पुष्करार्द्धक्षेत्रस्वरूपमभिहितं प्रागतः क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाहदसेत्यादि, सौधर्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासात्, आनतारणयोस्तु तदनधिष्ठितत्वं तनिवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यम्, यावत्करणात् 'ईसाणे २, सणंकुमारे ३, माहिदे ४, बंभलोए ५, लंतगे ६, सुक्के ७' त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैतेषु दशेन्द्रा भवन्तीति दर्शयितुमाहएएसु इत्यादि, शक्रः सौधर्मेन्द्रः, शेषा देवलोकसमाननामान:, शेषं सुगममिति ।

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372