Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 340
________________ दशममध्ययनं दशस्थानकम् । नवरं सेत्यस्यतीति । तथा सूरवक्तव्यताप्रतिबद्धं सूरम्, सूरवक्तव्यता च चन्द्रवत्, सुप्रतिष्ठो नाम्ना बभूवेति । शुक्रो ग्रहस्तद्वक्तव्यता चैवम् - राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच - वाराणस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत् ते भंते ! जवणिज्जं ?, तथा सरिसवा मासा य ते भोज्जा ? तथा एगे भवं दुवे भवं [पुप्फिया] इत्यादि, भगवता चैतेषु विभक्तेष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकधर्म्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवजहार, अन्यदाऽसौ यत्र क्वचन गर्त्तादौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्ध्वा उत्तराभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म्म कृत्वोवास, तत्र देवेन केनाप्युक्तः अहो सोमिलब्राह्मणमहर्षे ! दुष्प्रव्रजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयादिषु दिनेष्वश्वत्थवटोदुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ कथं नु नाम मे दुष्प्रव्रजितम् ?, देवोऽवोचत् त्वं पार्श्वनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म्यं प्रतिपद्याधुना अन्यथा वर्त्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमेवाणुव्रतादिकं धर्मं प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार ततः श्रावकत्वं प्रतिपाल्यानालोचितप्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि-- सा राजगृहे महावीरवन्दनाय सौधर्म्मादाजगाम, नाट्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तं जगाद - राजगृहे सुदर्शन श्रेष्ठी बभूव, प्रियाभिधाना च तद्भार्या तयोः सुता भूता नाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । ७४१ तथा प्रभावती चेटकदुहिता वीतभयनगरनायको दायनमहाराजभार्या यया जिनबिम्बपूजार्थस्नानानन्तरं इत्यादि । एवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भाव्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमम् । तथा बहुपुत्रिकादेवीप्रतिबद्धं सैवाध्ययनमुच्यते, तथाहि-- राजगृहे महावीरवन्दनार्थं

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372