Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 338
________________ दशममध्ययनं दशस्थानकम् । त्यादिवक्तव्यता ज्ञेया। पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति । तेतली ति य त्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु श्रूयते स नायम्, तस्य सिद्धिगमनश्रवणात् । ____ तथा दशार्णभद्रो दशार्णपुरनगरवासी समवसृतश्रीमहावीरजिनवंदनाधिकारे, इत्यादि विस्तरो [वृत्तौ]। इन्द्रर्द्धिगजेन्द्रविभूतिमालोक्यागत वैराग्यः प्रवव्रजा, सोऽयं दशार्णभद्रः सम्भाव्यते, परमनुत्तरोपपातिकाङ्गे नाधीत:, क्वचित् सिद्धश्च श्रूयत इति । ___ तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे- पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्न्या देव्या अतिमुक्तको नाम पुत्र: षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत्- इत्यादि विस्तरो वृत्तौ भगवत्यां च यावत्प्रव्रज्य सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति । दस आहिय त्ति दशाध्ययनान्याख्यातानीत्यर्थः । आचारदशानामध्ययनविभागमाह- आयारेत्यादि, असमाधि: ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि पदानि असमाधिस्थानानि, यैरासेवितैरात्मपरोभयानामिह परत्रोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशति: द्रुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकमध्ययनमसमाधिस्थानानीति प्रथमम्, तथा एकविंशति: शबला: शबलं कर्बुर द्रव्यत: पटादि भावत: सातिचारं चारित्रम्, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेवमाना उपाधित एकविंशतिर्भवन्ति, तदर्थमध्ययनम् एकविंशतिशबला इत्यभिधीयते २ । तेत्तीसमासायणाउ त्ति ज्ञानादिगुणा आ सामस्त्येन शात्यन्ते अपध्वस्यन्ते यकाभिस्ता आशातना रत्नाधिकविषयाविनयरूपा: पुरतोगमनादिकास्तत्प्रसिद्धास्त्रयस्त्रिंशद्भेदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३ । अद्वेत्यादि, अष्टविधा गणिसम्पत् आचार-श्रुत-शरीर-वचनादिका आचार्यगुणद्धिरष्टस्थानकोक्तरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४ । दसेत्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्पादादीनि तत्रैव

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372