Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 314
________________ दशममध्ययनं दशस्थानकम् । ७१५ निर्वाणगमनानुत्तरविमानवक्तव्यताख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगता-ऽनुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्तौ अवयवे समुदायोपचारादिति, तथा सर्वे विश्वे ते च ते प्राणाश्च द्वीन्द्रियादयो भूताश्च तरवः जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राण-भूत-जीव-सत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । [सू० ७४३] दसविधे सत्थे पण्णत्ते, तंजहासत्थमग्गी विसं लोणं, सिणेहो खारमंबिलं । दुप्पउत्तो मणो वाया, कायो भावो त अविरती ॥१६०॥ _ [टी०] प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात्, शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह- दसेत्यादि, शस्यते हिंस्यते अनेनेति शस्त्रम् । सत्थं सिलोगो, शस्त्रं हिंसकं वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते- अग्निः अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रम् १, विषं स्थावर-जङ्गमभेदम् २, लवणं प्रतीतम् ३, स्नेहः तैल-घृतादिः ४, क्षारो भस्मादिः ५, अम्लं काञ्जिकम् ६, भावो य त्ति इह द्रष्टव्यम्, तेन भावो भावरूपं शस्त्रम्, किं तदित्याह- दुष्प्रयुक्तम् अकुशलं मनो मानसम् ७, वाग् वचनं दुष्प्रयुक्ता ८, कायश्च शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात् कायग्रहणेनैव तद्ग्रहणं द्रष्टव्यमिति, अविरतिश्च अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । [सू० ७४४] दसविधे दोसे पन्नत्ते, तंजहातज्जातदोसे मतिभंगदोसे, पसत्थारदोसे परिहरणदोसे । सलक्खण-कारण-हेउदोसे, संकामणं निग्गह वत्थुदोसे ॥१६१॥ १॥ दसविधे विसेसे पन्नत्ते, तंजहावत्थु-तजातदोसे त, दोसे एगट्टिते ति त । कारणे त पडुप्पन्ने, दोसे निच्चे [5]हिअट्ठमे ॥

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372