Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 323
________________ ७२४ दसविहेत्यादि, प्रतिकूलतया आ मर्यादया ख्यानं कथनं प्रत्याख्यानं निवृत्तिरित्यर्थः। अणागय गाहा सार्द्धा, अणागय त्ति अनागतकरणादनागतं पर्युषणादावाचार्यादिवैयावृत्यकरणान्तरायसद्भावादारत एव तत्तप:करणमित्यर्थः १ । अइक्वंतं ति एवमेवातीते पर्युषणादौ करणादतिक्रान्तम् २। कोडीसहियं ति कोटीभ्याम् एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः ३ । नियंटियं ति नितरां यन्त्रितं प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, एतच्च प्रथमसंहननानामेवेति ४ । सागारं ति आक्रियन्त इत्याकारा: प्रत्याख्यानापवादहेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारम् ५ । अणागारं ति अविद्यमाना आकारा महत्तराकारादयो निश्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम्, तत्रापि अनाभोग-सहसाकारावाकारौ स्याताम्, मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति ६ । परिमाणं सङ्ख्यानं दत्ति-कवल-गृह-भिक्षादीनां कृतं यस्मिंस्तत् परिमाणकृतमिति ७ । निरवसेसं ति निर्गतमवशेषमपि अल्पाल्पमप्यशनाद्याहारजातं यस्मात् तन्निरवशेषम्, निरवशेषं वा सर्वमशनादि तद्विषयत्वाद् निरवशेषमिति ८ । सएययं चेव त्ति केतनं केत: चिह्नमङ्गुष्ठ-मुष्टि-ग्रन्थि-गृहादिकं स एव केतकः, सह केतकेन सकेतकं ग्रन्थ्यादिसहितमित्यर्थ: ९ । अद्धाए त्ति अद्धाया: कालस्य, पौरुष्यादिकालमानमाश्रित्येत्यर्थः १० । पच्चक्खाणं दसविधं तु त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्द एवकारार्थः, ततो दशविधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । [सू० ७४९] दसविधा सामायारी पण्णत्ता, तंजहाइच्छा मिच्छा तहक्कारो, आवस्सिता य निसीहिता । आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । उवसंपता य काले, सामायारी दसविधा उ ॥१६६॥ [टी०] प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372