Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ ७३५ दशममध्ययनं दशस्थानकम् । दसारमंडले ति त, आयरियविप्पडिवत्ती, उवज्झातविप्पडिवत्ती, भावणा, विमुत्ती, सातो, कम्मे ८। दोगेहिदसाणं दस अज्झयणा पन्नत्ता, तंजहा-वाते, विवाते, उववाते, सुखेत्ते, कसिणे, बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा, हारे, रामगुत्ते त, एमेते दस आहिता ९।। दीहदसाणं दस अज्झयणा पन्नत्ता, तंजहा-चंदे, सूरे त, सुक्के त, सिरिदेवी, पभावती, दीवसमुद्दोववत्ती, बहुपुत्ती मंदरे ति त, थेरे संभूतविजते, थेरे पम्ह, ऊसासनीसासे १०॥ संखेवितदसाणं दस अज्झयणा पन्नत्ता, तंजहा-खुड्डिया विमाणपविभत्ती, महल्लिया विमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, वियाहचूलिया, अरुणोववाते, वरुणोववाए, गरुलोववाते, वेलंधरोववाते, वेसमणोववाते ११। [टी०] सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह- दस दसेत्यायेकादश सूत्राणि, तत्र दस त्ति दशसङ्ख्या दसाओ त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, कर्मण: अशुभस्य विपाकः फलं कर्मविपाक: तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशा: कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः, उत्तरत्राविवरिष्यमाणत्वादिति । __ तथा साधून् उपासते सेवन्त इत्युपासका: श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धाः दशा दशाध्ययनोपलक्षिता उपासकदशा: सप्तममङ्गमिति । तथा अन्तो विनाश:, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतः, ते च तीर्थकरादयः, तेषां दशा: अन्तकृद्दशा:, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितम् । तथा उत्तरः प्रधान:, नास्योत्तरो विद्यत इत्यनुत्तर: उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिका: सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः,

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372