Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 335
________________ ७३६ तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोप- पातिकदशाः नवममङ्गमिति। तथा आचरणमाचारो ज्ञानादिविषयः पञ्चधा, आचारप्रतिपादनपरा दशा दशाध्ययनात्मिका आचारदशाः, दशाश्रुतस्कन्ध इति या रूढाः । तथा प्रश्नाश्च पृच्छा: व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि, तत्प्रतिपादिका दशा: दशाध्ययनात्मिकाः प्रश्नव्याकरणदशा: दशममङ्गमिति । तथा बन्धदशाः द्विगृद्धिदशाः दीर्घदशाः सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति । कर्म्मविपाकदशानामध्ययनविभागमाह- कम्मेत्यादि, मिगेत्यादि श्लोकः सार्द्ध:, मृगा मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या, तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो भदन्त ! अन्योऽपीहास्ति जात्यन्धः ?, भगवांस्तं मृगापुत्रं जात्यन्धमुपदिदेश, इत्यादि सूत्रादेः, तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्रमुक्तमिति १। गोत्तासे त्ति गोस्त्रासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधानायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराट्या गावस्त्रासिताः, इत्यादि गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २ | अंडे ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापविपाकप्रतिपादकमण्डमिति, इत्यादि विपाकश्रुते चाऽभग्नसेन इतीदमध्ययनमुच्यते ३। सगडे त्ति यावरे, शकटमिति चापरमध्ययनम्, तत्र शाखांजन्यां नगर्यां सुभद्राख्यसार्थवाह-भद्राभिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छन्निकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४। माहणे त्ति कौशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मण:, स चान्तःपुरव्यतिकरे उदयनेन राज्ञा तथैव कदर्थयित्वा मारितः, जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः,

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372