Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
७२३
दशममध्ययनं दशस्थानकम् । क्षेत्रगणितम् ३, रासि त्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशि:, स च पाट्यां राशिव्यवहार इति प्रसिद्ध: ४, कलासवन्ने य त्ति कलानाम् अंशानां सवर्णनं सवर्ण: सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् ५, जावंताव इ त्ति जावं ताव त्ति वा गुणकारो त्ति वा एगट्ठ [ ] इति वचनाद् गुणकारस्तेन यत् सङ्ख्यानं तत्तथैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढम्, अथवा यावत: कुतोऽपि तावत एव गुणकाराद् यादृच्छिकादित्यर्थः, यत्र विवक्षितं सङ्कलनादिकमानीयते तद् यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम्
गच्छो वाञ्छाभ्यस्तो वाञ्छयुतो गच्छसगुण: कार्यः । द्विगुणीकृतवाञ्छहते वदन्ति सङ्कलितमाचार्याः ॥ [ ]
अत्र किल गच्छो दश १०, ते च वाञ्छया यादृच्छिकगुणकारेणाष्टकेनाभ्यस्ता: जाताऽशीति: ८०, ततो वाञ्छयुतास्ते अष्टाशीति: ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हृते यल्लभ्यते तद् दशानां संकलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, तथा वर्गः संख्यानम्, यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात: [त्रिशती) इति वचनात् ७, घणो यत्ति घन: सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहतिः [त्रिशती] इति वचनात् ८, वग्गवग्गो त्ति वर्गस्य वर्गो वर्गवर्ग:, स च सङ्ख्यानम्, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णां वर्ग: षोडशेति, अपिशब्द: समुच्चये ९, कप्पो यत्ति गाथाधिकम्, तत्र कल्प: छेदः, क्रकचेन काष्ठस्य, तद्विषयं सङ्ख्यानं कल्प एव यत् पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यन्त्यतो न प्रदर्शितानीति १० । [सू० ७४८] दसविधे पच्चक्खाणे पण्णत्ते, तंजहाअणागतमतिकंतं, कोडीसहितं नियंटितं चेव । सागारमणागारं, परिमाणकडं निरवसेसं । सएयगं चेव अद्धाए, पच्चक्खाणं दसविहं तु ॥१६५॥ [टी०] दश मुण्डा उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372