Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 329
________________ ७३० पिटकमिव पिटकं वणिज इव सर्वस्वस्थानं गणिपिटकम्, आघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः, प्रज्ञापयति सामान्यत:, प्ररूपयति प्रतिसूत्रमर्थकथनेन, दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, दिंसेइ त्ति कथञ्चिदगृह्णत: परानुकम्पया निश्चयेन पुन: पुनदर्शयति निदर्शयति, उवदंसेइ त्ति सकलनययुक्तिभिरिति ३, चाउव्वण्णाइण्णे त्ति चत्वारो वर्णाः श्रमणादय: समाहृता इति चतुर्वर्णम्, तदेव चातुर्वर्ण्यम्, तेनाकीर्ण: आकुलश्चातुर्वर्णाकीर्णः, चउव्विहे देवे पन्नवेइ त्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति जीवाजीवादीन् पदार्थान् बोधयति सम्यक्त्वं ग्राहयति शिष्यीकरोतीति यावत्, लोकेभ्यो वा तान् प्रकाशयति । अणंते इत्यादौ सूत्रे यावत्करणात् निव्वाघाए निरावरणे [कसिणे पडिपुण्णे केवलवरनाणदंसणे त्ति] दृश्यमिति । सदेवेत्यादि, सह देवै: वैमानिक-ज्योतिष्कैर्मनुजैः नरैरसुरैश्च भवनपति-व्यन्तरैर्वर्तत इति सदेवमनुजासुरस्तत्र लोके त्रिलोकरूपे उराल त्ति प्रधाना:, कीर्तिः सर्वदिग्व्यापी साधुवादः, वर्ण एकदिग्व्यापी, शब्दः अर्द्धदिग्व्यापी, श्लोकः तत्तत्स्थान एव श्लाघा, एषां द्वन्द्वः, तत एते परिगुवंति परिगुप्यन्ति व्याकुला भवन्ति सततं भ्रमन्तीत्यर्थः, कथमित्याह- इति खल्वित्यादि, इति: एवंप्रकारार्थः, खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनर-नाकिनायकनिकायसेवितचरणयुग इत्यर्थः, महावीर इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्व-ख्यापनार्थं चेति, आघवेईत्यादि पूर्ववत् । [सू० ७५१] दसविधे सरागसम्मइंसणे पन्नत्ते, तंजहानिसग्गुवतेसरुती आणारुती सुत्त-बीतरुतिमेव । अभिगम-वित्थाररुती किरिया-संखेव-धम्मरुती ॥१६७॥ [टी०] स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाहदसविहेत्यादि, सरागस्य अनुपशान्ताक्षीणमोहस्य यत् सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा, तद्दशधाह निसग्ग गाहा, रुचिशब्द: प्रत्येकं योज्यते, ततो निसर्ग: स्वभावस्तेन रुचि: तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचि, यो हि जातिस्मरण-प्रतिभादिरूपया

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372