Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
६९६
दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाहदसरायहाणिगहणा सेसाणं सूयणा कया हो ।
मासस्संतो दुग तिग ताओ अड़ंतम्मि आणाई || [निशीथभा० २५८८ ]
एतास्विति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानः चक्रवर्त्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानौ न प्रव्रजितौ नरकं च गताविति । तत्र भरत - सगरौ प्रथम- द्वितीय चक्रवर्त्तिराजौ साकेते नगरे विनीता - ऽयोध्यापर्याये जातौ प्रव्रजितौ च मघवान् श्रावस्त्याम्, सनत्कुमारादयश्चत्वारो हस्तिनागपुरे, महापद्मो वाराणस्याम्, हरिषेणः काम्पिल्ये, जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः, ग्रन्थविरोधात्, उक्तं च-- इत्यादि [वृत्तौ ] |
मन्दरो मेरुः, उव्वेहेणं ति भूमाववगाहतः, विष्कम्भेण पृथुत्वेन, उपरि पण्डकवनप्रदेशे दश शतानि सहस्रमित्यर्थः । दश दशकानि शतमित्यर्थः, केषाम् ? योजनसहस्राणाम्, लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात्, सर्वाग्रेण सर्वपरिमाणत इति ।
उवरिमहेट्ठिल्लेसु त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयोः, सर्वेषां मध्ये तयोरेव लघुत्वात्, तयोरध उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, अट्ठपएसिए त्ति अष्टौ प्रदेशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, इमाउ त्ति वक्ष्यमाणाः त्ति चतस्रो द्विप्रदेशादयो द्व्युत्तराः शकटोर्द्धिसंस्थाना महादिशश्चतस्र एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, पवहंति त्ति प्रवहन्ति प्रभवन्तीत्यर्थः ।
इंदा गाहा, इन्द्रो देवता यस्या: सा ऐन्द्री, एवमाशेयी याम्येत्यादि, विमला वितिमिरत्वादूर्ध्वदिशो नामधेयम्, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति।
लवणेत्यादि, गवां तीर्थं तडागादाववतारमार्गे गोतीर्थम्, ततो गोतीर्थमिव गोतीर्थम् अवतारवती भूमि:, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्यर्वाग्भागतः

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372