Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 306
________________ दशममध्ययनं दशस्थानकम् । ७०७ सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्रमाणतोऽनाप्तास्तदभावान्न तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २, तथा उन्मार्गो निर्वृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धान-ज्ञाना-ऽनुष्ठानरूपस्तत्र मार्गसंज्ञा कुवासनातो मार्गबुद्धिः ३, तथा मार्गेऽमार्गसंज्ञेति प्रतीतम् ४, तथा अजीवेषु आकाश-परमाण्वादिषु जीवसंज्ञा पुरुष एवेदमित्याद्यभ्युपगमादिति, तथा क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-चन्द्र-सूर्याख्या: । इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ॥ [ ] इति ५, तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवा उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति ६, तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा साधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७, तथा साधुषु ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, ‘एते हि कुमारप्रव्रजिताः, नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वा' इत्यादिविकल्पात्मिकेति ८, तथाऽमुक्तेषु सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिन: सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥ [ ] इत्यादिविकल्पात्मिकेति ९, तथा मुक्तेषु सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शन-सुख-वीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशा-ऽऽत्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । [सू० ७३५] चंदप्पभे णं अरहा दस पुव्वसतसहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे १। धम्मे णमरहा दस वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणेश णमी णमरहा दस वाससहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे३।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372