Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ ७०२ असुराणं नागाणं उदहिकुमाराण होंति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥ [दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा । अरुणवरे दीवम्मि उ तत्थेव य तेसि उप्पाया ॥ [द्वीपसागर० २२०-२२१] इति ।] सक्कस्सेत्यादि, कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभ-यमप्रभ-वरुणप्रभ-वैश्रमणप्रभाख्या उत्पातपर्वता: सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यत: सर्वेषामेकं प्रमाणम्, नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः । [सू० ७२८] बादरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पण्णत्ता १॥ जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता २॥ उरपरिसप्पथलचरपंचेंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव ३॥ टी०] योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम्- बादरेत्यादि कण्ठ्यम्, नवरं बादर त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात्, एवं जघन्यतोऽपि मा भूदत: उक्कोसेणं त्यभिहितम्, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, उस्सेहपमाणउ मिणे देहं [बृहत्सं० ३४९] ति वचनात्, शरीरस्यावगाहना येषु प्रदेशेषु शरीरमवगाढं सा शरीरावगाहना, सा च तथाविधनद्यादिपद्मनालविषया द्रष्टव्येति । जलचरेत्यादि, इह जलचरा मत्स्याः गर्भजा इतरे च दृश्या:, मच्छजुयले सहस्सं [बृहत्सं० ३०७] ति वचनात्, एते च किल स्वयम्भूरमण एव भवन्तीति । उरेत्यादि, उर:परिसर्पा इह गर्भजा महोरगा दृश्या:, उरगेसु य गब्भजाईसु ॥ [बृहत्सं० ३०७] त्ति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, एवं चेव त्ति दस जोयणसयाई सरीरोगाहणा पत्नत्त त्ति सूत्रं वाच्यमित्यर्थः। [सू० ७२९] संभवाओ णमरहातो अभिणंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372