Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 284
________________ दशममध्ययनं दशस्थानकम् । ६८५ मे सद्द जाव अवहरिंसु अवहरति अवहरिस्सति उवहरिंसु उवहरति उवहरिस्सति ९, अहं च णं आयरियउवज्झायाणं सम्मं वहामि ममं च णं आयरियउवज्झाया मिच्छं विप्पडिवन्ना १० । टी०] पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह- दसहीत्यादि गतार्थम्, नवरं स्थानविभागोऽयम्- तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयत: क्रोधोत्पत्तिः स्यादित्येकम्, एवम् अमनोज्ञानुपहृतवान् उपनीतवान्, इह चैकवचन-बहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयम्, एवं वर्तमाननिर्देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारत: कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमम्, मनोज्ञा-ऽमनोज्ञानामपहारोपहारत: कालत्रयनिर्देशेन नवमम्, अहं चेत्यादि दशमम्, मिच्छं ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । [सू० ७०९] दसविधे संजमे पन्नत्ते, तंजहा-पुढविकाइयसंजमे आउकाइयसंजमे] तेउकाइयसंजमे] वाकाइयसंजमे] वणस्सति[काइयसंजमे] बेइंदितसंजमे तेंदितसंजमे चउरिंदितसंजमे पंचेंदितसंजमे अजीवकायसंजमे । दसविधे असंजमे पन्नत्ते, तंजहा-पुढविकाइयअसंजमे जाव अजीवकायअसंजमे । दसविधे संवरे पन्नत्ते, तंजहा-सोतिंदितसंवरे जाव फासेंदितसंवरे, मण[संवरे], वासंवरे], काय[संवरे], उवकरणसंवरे, सूचीकुसग्गसंवरे । दसविधे असंवरे पन्नत्ते, तंजहा-सोतिदितअसंवरे जाव सूचीकुसग्गअसंवरे। [टी०] क्रोधोत्पत्ति: संयमिनां नास्तीति संयमसूत्रम्, सूत्रचतुष्ट्यं समसूत्रम्। संयमविपक्षश्चासंयम इत्यसंयमसूत्रम्, असंयमविपक्ष: संवर इति संवरसूत्रम्, संवरविपरीतोऽसंवर इत्यसंवरसूत्रम्, सुगमानि चैतानि, नवरमुपकरणसंवरः अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौघिकोपकरणापेक्षः, तथा शूच्या: कुशाग्राणां च शरीरोपघातकत्वाद्यत् संवरणं सङ्गोपनं स शूची-कुशाग्रसंवरः, एष तूपलक्षणत्वात् समस्तौपग्रहिकोपकरणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति ।

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372