Book Title: Sthanang Sutram Part 02
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
६८९
दशममध्ययनं दशस्थानकम् । चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च स्त्र्यादिभेदात् त्रिविध इति ।
अजीवेत्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं पुद्गलानां परस्परं सम्बन्ध: संश्लेष इत्यर्थः, स एव परिणामो बन्धनपरिणाम:, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्
समनिद्धयाए बंधो न होइ समलुक्खयाय वि न होइ । वेमायनिद्ध-लुक्खत्तणेण बंधो उ खंधाणं ॥ [प्रज्ञापना० १९९]
एतदुक्तं भवति- समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थमुच्यते__ निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवजो विसमो समो वा ॥ [प्रज्ञापना० २००] इति,
गतिपरिणामो द्विविध: स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि- अभ्रङ्कषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यत: सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घ-हस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डल-वृत्त-त्र्यश्र-चतुरश्रा-ऽऽयतभेदात् पञ्चविधः, भेदपरिणाम: पञ्चधा, तत्र खण्डभेद: क्षिप्तमृत्पिण्डस्येव १, प्रतरभेदोऽभ्रपटलस्येव २, अनुतटभेदो वंशस्येव ३, चूर्णभेदः चूर्णनम् ४, उत्करिकाभेदः समुकीर्यमाणप्रस्थकस्येवेति, वर्णपरिणाम: पञ्चधा, गन्धपरिणामो द्विधा, रसपरिणाम: पञ्चधा, स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद् द्रव्यं तदगुरुकलघुकम् अत्यन्तसूक्ष्म भाषा-मन:-कर्मद्रव्यादि तदेव परिणाम: परिणामतद्वतोरभेदात् अगुरुकलघुकपरिणाम: एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद् गुरुकलघुकम् औदारिकादि स्थूलतरमित्यर्थः, इदमुक्तरूपं द्विविधं वस्तु निश्चयनयमतेन, व्यवहारतस्तु चतुर्द्धा, तत्र

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372